________________ 330 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवर्धमान वने भ्रमन्तं तं नागं कोशाम्बीशो निशम्य सः / प्रारेभे तत् पुरो गीतं स्थितस्तत्कूटकुञ्जरः / / 438 / / चटन् चरटवत् तस्य करटे मध्यगैर्भटैः / बद्ध्वोजयिन्यामानिन्ये प्रद्योतः प्राह तं पुनः !439 / एकदृग् मम पुत्रीयं रहःपाठया कलाः कलाः / राजपुत्रा न जानन्ति यथा काणदृशं परे // 440 // प्रतिपन्ने च तत्पाठे ह्यदायनमहीभुजा / सुताऽप्युक्ता गुरुः कुष्ठी नेक्षणीयस्त्वयाऽङ्गजे / 441 / एवं प्रवृत्ते तत्कार्येऽन्यदा कन्या तमीक्षितुम् / . पपाठ मनसा शून्या वत्सेशस्तामतर्जयत् / / 442 // काणे किं कुरुषे शास्त्रभङ्ग रङ्गं भजाऽधुना / ___ कुष्ठिन् दुष्टं किमारख्यासि तयाऽप्युक्तस्तदा गुरुः // 443 // एवमालापतोऽन्योन्यं दिदृक्षं तौ पटान्तरम् / विनीय योग्यरूपेक्षापक्षान् मोदमुपेयतुः / 444 / जातस्तयो प्रसङ्गश्च ज्ञातः काञ्चनमालया / उद्वन्धनो नलगिरिः कदाचित् पौरभीतये / 445 / बन्धोपायेऽभयः पृष्टो जगावुदायनो नृपः / ___एतत्पुरो गायति चेद् वश्यः स्यात् कुञ्जरस्तदा // 446 // तथा कृत्वा करी बद्धस्तदादाद् भूपतिवरम् / / न्यासीचक्रेऽभयः प्राग्वत् प्रद्योतः कानने ययौ // 447 // तदा सरसगीतादिप्रारम्भेऽगादुदायनः / लात्वा वासवदत्तां तां करेणूपरि संस्थितः / 448 / चतस्रो मूत्रघटिकाः करेणोः पार्श्वयोधृता / प्राप्तेऽनलगिरावेकां बभञ्ज घटिकां पुरः / 449 / तद्विलम्बे स कोशाम्बीं प्राप क्षेमादुदायनः / पौरा मांगल्यमातेनुः शूराः क्रूरा रणे रणे // 450 // कोपारोपाद्योधलोपं पश्यन्नश्यनिजं जनम् / विमृश्य कुरु सन्धानं निधानं कीर्तितेजसोः // 451 // तदा ह्युचुर्मन्त्रिणोऽपि कस्मैचिद्दीयते कनी / स्वयंवरायामेतस्यां कार्यः कोपो न भूभृता / 452 / इति मन्त्रिगिरा बुद्धः प्रशान्तस्तमुदायनम् / जामातारं बह्वमंस्त वस्त्रालङ्कारदानतः // 453 // लग्ने प्रदीपनेऽवन्त्यामभयोक्त्या तदग्रिमे / गृहे शुद्धीकृत्य दीप्ते प्रशान्तं तत् प्रदीपनम् // 454 //