________________ / 325 चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् पुत्राद्यैः पृथगारक्षि क्रोधाच्छागं च कुष्ठिनम् / स्वस्पर्शाच्छागयोगेनाऽन्येऽपि जाताश्च कुष्ठिनः // 361 // स्वयं तीर्थे व्रजन् क्वाऽपि भाग्यात् पीतपया हदे / नीरुगागाद् द्वारपालो द्वारे तस्थौ च सुस्थितः // 362 // विषन्नस्तृपया नीरध्यानाज्जज्ञे स दर्दुरः / आगच्छन् वन्दितं मां स तवाश्वखुरतो मृतः / 363 / भक्तिभावनयाऽस्माकं दर्दुराङ्कः सुरोऽजनि / / विनाऽनुष्ठानमेकैव भक्तिः फलति निश्चिता // 364 // त्वद्वर्णनायामिन्द्रस्य परीक्षायै तथाऽर्चनम् / वचनं च क्षुते जाते प्रतीह्यर्थविवेचनात् // 365 // दर्शितः साधुरूपेण कैवर्तः श्रमणी पुनः / गर्भिणी रक्षिता गेहे तुष्टो हारमदात् सुरः / 366 / राज्ञा हारश्चेल्लणायै ददे च गोलकद्वयम् / सुनन्दायै दीयमानं तया प्रस्फोटितं रुषा // 367 // एकस्मात् कुण्डलयुगं क्षौमयुग्मं ततः परात् / . निःसृतं तत् समादाय नन्दानन्दं विवेद सा // 368 // नाथ ! कीदृग्गतिर्मेऽत्र भाविनीत्यनुयोजने / जिनेनोचे नारकत्वं प्रारबद्धं दृढकर्मतः // 369 // तन्निवृत्तौ कोऽप्युपायो निर्देश्यः प्रभुरप्यवक् / दत्ते चेत् कपिलादानं हिंसामुक् कालसूकरः // 370 // पृष्ठचम्पागते वीरे नन्तुं सालनृपोऽभ्यगात् / महाशालभ्रातृयुक्तः प्रबुद्धो व्रतसम्मुखः / 371 / गागलिं पिठरात् सूनुं यशोमत्याः स्वसुर्नृपः / राज्येऽभिषिच्य जगृहे व्रतं तीव्रतपोऽतपत् // 372 // कालान्तरे पुरस्कृत्य गौतमं स्वपुरे गतौ / मुनी सालमहासालौ जाता गौतमदेशना / 373 / प्रबोधाद् गागलिर्मातापितृभ्यां सह संयतः / चचाल चम्पामापन्नं वीरं नन्तुं स गौतमः // 374 // पश्चानां पञ्चमं ज्ञानं जज्ञे वर्त्मनि गच्छताम् / जिनोक्त्या गौतमोऽज्ञासीत् कैवल्याशातनां जहौ // 375 // योऽष्टापदे जिनॉल्लब्ध्या प्रणमेव तद्भवे भवेत् / . नियमात् केवलज्ञानीत्यतोऽगाद् गौतमो गिरिम् // 376 //