________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 311 - तेन मारिः कृता ग्रामे तदस्थिनिकरैः पुरम् / __ अस्थिग्रामेति विख्यातं शूलपाणिः स यक्षराट् // 132 // तत् प्रबोधाय तच्चैत्ये स्थितं प्रतिमया निशि / उपदुद्राव श्रीवीरं सर्पेभव्याघ्ररुग्भयैः / 133 / मनागर्हन्न विमनाभ यभ्रान्तोऽप्यभूत् तदा / प्रतिबुद्धः क्षामणकं शूलपाणिय॑धत्त सः / 134 / ज्ञात्वाऽर्हन्तं च सिद्धार्थवचसा नाटकं व्यधात् / मुहूर्त्तमात्रं निद्रायां दशस्वप्ना इमेऽभवन् // 135 // पिशाचो निहतस्तालः, कोकिलो धवलच्छविः / स एव चित्ररूपेण, दाम्नी, गोवर्गसेवनम्, // 136 // विबुधालङ्कृतं पद्मसरं, सीर्णश्च सागरः / .. सूर्योदयोन्त्रैः परीतो मानुषोत्तरभूधरः // 137 // आरूढोऽहं सुवर्णाद्रि, . मेवं प्रातः समागते / उत्पलं पुरतस्कृत्य जने विस्मितमानसे / 138 / अप्राक्षीदुत्पलो देवं स्वप्ना दृष्टास्त्वया दश / फलमेषां मोहजयो। ध्यानं धवलमाप्स्यसि२ // 139 // द्वादशाङ्गप्रकाशश्च सङ्घश्चतुर्विधस्तव४ / संसारार्णवनिस्तारः केवलज्ञानलम्भनम् // 140 // त्रैलोक्ये ते यशस्तेजः स्थितिर्वप्रत्रयोच्चकैः।। त्वत्प्रभावादहं जाने न दामद्वितयीफलम् // 141 // इत्युत्पलवचःप्रान्ते प्रभुः प्राह प्रवक्ष्यते / धर्मों द्वेधा महदणुव्रतभेदादिहोत्पल ! // 142 // एष प्रथमवर्षर्तुः पूर्णों देवे सवाससि / पितुमित्रं सोमभट्ठोऽप्रार्थयज्जिननायकम् // 143 / / नास्ति पार्श्वे वस्तु किश्चिदित्युक्त्वाऽर्द्ध स्ववाससः / - दत्तं तस्मै तुन्नवायं प्रेक्ष्य तत् सोऽप्यदर्शयत् // 144 // तेनोचे याहि तत्पृष्ठे शेषमड़ पतिष्यति / - तदाऽऽदाय त्वया धार्य संधास्ये तद्वयं मिथः // 145 // दीनारलक्षं विक्रीया मर्द्ध च त्वया मया / ग्राह्यं विभज्येति ततः सोमो बभ्राम तत्कृते / 146 / सुवर्णवालुकातीरे पपात वाततोऽशतः / तदर्द्ध वाससो नीतं सोमेन तत्क्षणात् पुनः // 147 // अचेलस्तत्परं वीरो गङ्गातीरेऽचलत् तदा / तत्पदाङ्कुशचक्रादि पुष्पो लक्षणमैक्षत // 48 //