________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 305 जितशत्रौ व्रतं प्राप्ते ननन्द नन्दनः क्रमात् / साम्राज्येन चतुर्विंशत्यब्दलक्षावधिश्रिया / 40 / विरक्तः पोट्टिलाचार्याद् दीक्षामादाय निर्मदः / __मासोपवासी सोऽभ्यासी गुरूणां व्यहरद् भुवि // 41 // दुःसाधमपि निर्वाधं धर्म वर्मेव संदधे / विंशतिस्थानतपसा तीर्थकृत् कर्म निर्ममे // 42 // विधिनाऽऽराधनां कृत्वा द्विमास्यनशनादरात् / पञ्चविंशत्यब्दलक्षी पूर्णायुर्मरणं गतः // 43 // प्राणते दशमस्वर्गे नाम्ना पुष्पोत्तरे सुरः / विमानेऽवातरच्चान्तर्मुहूर्ताद्यौवनोन्मुखः / 44 / सामानिकसुराः सर्वेऽभिदधाना जयध्वनिम् / प्राञ्जलीभूय तत्रेयुर्जगदुर्जगदुत्सवम् // 45 // जाताभिषेको निन्येऽयमलङ्कारसभां सुरैः / सालङ्कारः साङ्गरागो व्यवसायसभां ययौ / 46 / वाचनात् पुस्तकस्याऽपि न्यस्य तद्हृदशौचकृत् / सिद्धायतनमभ्येत्य पूजोपकरणान्वितः।४७। शतमष्टोत्तरं चाहत्प्रतिमानामपूजयत् / काव्यैरष्टोत्तरशतप्रमितैस्तुष्टुवे सुरः // 48 // युग्मं / / विमाने पञ्च - सदसां प्रतिमा षष्टिरहताम् / सिद्धायतनविंशत्यग्रशतप्रतिमान्विता // 49 // साशीतिशतकं चाहत्प्रतिमानां तदाचितम् / आभोगविषयाहारोऽप्यस्य जज्ञेऽन्तरा यदा // 50 // विंशत्यब्दसहस्रेस्तत्पूजां कृत्वा मनोबलात् / आजहे जिनकल्याणकादौ धर्म चकार सः 51 / विंशत्यधिमितायुष्को प्रान्तेऽधिकतरद्युतिः / च्युत्वा ब्राह्मणकुण्डारख्येऽवततार द्विजान्वये // 52 // भूमानृषभदत्तोऽत्र द्विजराजः कलाधरः / जनानां नयनानन्दी बन्दी यं स्तौति नित्यशः // 53 // दक्षजातिप्रणयभाक् करैः सौम्यैः प्रजात्रजान् / प्रीणाति कौमुदं पुष्णन् लक्ष्मणः श्रेष्ठलक्ष्मणा // 54 // कोडालसकुलस्यास्य रोहिणीव सुधारुचेः / . विपुला रोहिणी देवानन्दाऽऽनन्दाय भामिनी // 55 // अस्या वदनसौन्दर्यसोदर्याम्भोजधोरणी / मित्रं विज्ञाप्य विज्ञाप्याऽवर्द्धयत् तेजसाजसा / 56 / पग्रिन्या न्याय्यमेवैतबालीकमुखसम्पदः / न चेत् सुवृत्तता क्वेन्दोरलीकस्थितिशालिनः / 57 / तस्याः कुक्षाववातारीत् शुचिषष्ठीतिथौ शुचेः / नन्दनश्चन्दनक्ष्मेवाऽनेन सा भूमसौरभा / 58 / ल. त्रि 39