________________ उणावि० पा० 2 सू० 32-46] 32 शकादिभ्यः अटन् / शकटम् वाहनम् / अकटम् हिरणम् / कुलटा बन्धकी / देवटः ऋषिः / मर्कट: वानरः / कमट: रुद्रः / 33 जटा-लोष्टम् / जटा केशबन्धः / लोष्टम् मृद्वलिः / 34 कु-तृ-कृपेः कोटन् / किरीटम् मुकुटम् / तिरीटम् वेष्टनम् / कृपीटम् जलम् / 35 शमेः ण्ठः / ____शण्ठः महिषचौरः / 36 कमः अठत् च / ___कमठः वामनः / कण्ठः ग्रीवा / 37 क-वृक्षः अण्डन् / - करण्ड : गुह्यस्थानम् / * वरण्ड: मुखरोगः / 38 ऊर्णोः डः / ऊर्णा मेषरोम / 36 बमन्तात् डः / चण्ड: दुर्जनः / . दण्ड: लगुडः / अण्ड: पक्षिप्रसवः / रण्डा अप्रसवा / वण्ड: दुश्चर्मा / गण्ड: कपोलः / - खण्ड: गुडविकारः / चानव्याकरणम् __ [91 40 कुण्ड आदयः / कुण्डम् भाजनम् / मुण्डम् शिरः / जुण्डम् वनम् / तुण्डम् मुखम् / एवम् अन्येऽपि द्रष्टव्याः / 41 शमेः ढः / शण्डः अप्रसवः / 42 शकेः उन्तः / शकुन्तः पक्षी / 43 ज-विशः अन्तच् / जरन्तः महिषः / वेशन्तः वल्लभः / 44 रुहि-नन्दि-जीवेः षित् / रोहन्तः वृक्षः / रोहन्ती ओषधी / नन्दन्ती सखी / जीवन्ती ओषधी / 45 भू-जि-वसि-वहि-साधि-भासि-गडि मण्डि-हेमिभ्यः / भवन्तः काल: / जयन्तः वृक्षविशेषः / , वसन्तः ऋतुविशेषः / वहन्तः रथः / साधन्तः भिक्षुः / भासन्तः सूर्यः / गडयन्त: मेघः / मण्डयन्तः ओदनः / हेमन्तः ऋतुः / 46 अतः भुवः डुतच् / अद्भुतम् आश्चर्यम् /