________________ (8 उणादि० पा० 1 सू० 39-50] 36 पी-म्योः रुः / पेरु: भास्करः / मेरुः पर्वतराजः / सुमेरुः स एव / 40 जत्रुआदयः / जत्रु ग्रीवाप्रदेशः / शत्रुः अमित्रः / रुरुः मृगः / श्मश्रु मुखरोम / खरुः दर्पः / शिग्रुः शोभाजनकः / 41 योः आगूच / यवागू: पेया / 42 भ्रमेः डूः / भ्रूः नेत्रोपरिस्थानम् / .. 43 चमि-तनि-बधिभ्यः ऊः। ___चमूः सेना / तनूः शरीरम् / . वधूः पुत्रभार्या / - 44 कषेः छश्च / ... कच्छू: पामा / -- 45 तिरः दुट् च / ... तर्दुः परिवेषणभाण्डम् / 46 यालोपः दरिद्रः / ___दर्दू: कुष्ठविकारः / - 47 जम्बूआदयः / जम्बू: वृक्षजातिः / दृन्भूः सर्पजातिः / दिधिषुः रण्डिका / पुनर्भूः पुनरूढिका / कर्कन्धः बदरीफलम् / , आडू: जलतरणी / चान्द्रव्याकरणम् अलाबूः तुम्बीफलम् / करूः भक्षणद्रव्यम् / कासूः विकलवाक् / पादूः पादधारणी / सर्जूः विद्युत् / खजूं: वृक्षजातिः / मर्जूः मलविशुद्धभाण्डम् / नृतूः दीर्घकृमिः / शृधूः यज्ञः / कर्षः शुष्कगोमयाग्निः / कम्बूः परद्रव्यापहारी / रतूः नदी / अन्दूः भूषणजातिः / कफेलू: श्लेष्मातकः / 48 दिवेः ऋन् / देवा पतिभ्राता / 46 नियो डित् / / ना पुरुषः / 50 पितृआदयः / पिता जनकः / माता जननी / दुहिता आत्मजा / ननान्दा पतिभगिनी। भ्राता सोदर्यः / जामाता दुहितृपतिः / स्वसा भगिनी / नप्ता पौत्रः / नेष्टा ऋत्विक् / त्वष्टा आदित्यः / क्षत्ता प्रतीहारः / .. होता विष्णुः / पोता बालः /