________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१], ---------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
S
प्रत सूत्रांक
[१३]
दीप अनुक्रम
उपवनेषु-भवनासमवनेषु, तथा परभृतानां-कोकिलानां यद्रुतं रचो रिमितं-खरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु, 'उहाईत'ति शोभमाना रक्ता इन्द्रगोपका:-कीटविशेषाः स्तोककानां चातकानां कारुण्यप्रधानं विलपितं च | येषु तानि तथा तेषूपवनेष्वित्यन्वयः, तथा अवनततृणमण्डितानि यानि तानि तथा तेषु, दर्दुराणां प्रकृष्टं जल्पितं येषु तानि तथा तेषु, संपिण्डिता-मिलिताः सा-दर्पिताः भ्रमराणां मधुकरीणां च 'पहकर ति निकरा येषु तानि तथा, 'परिलिन्त'त्ति परिली-| यमानाः संश्लिष्यन्तो मत्ताः पट्पदाः कुसुमासवलोला:-मकरन्दलम्पटा: मधुरं-कलं गुञ्जन्तः-शब्दायमानाः देशभागेषु येषां तानि तथा ततः कर्मधारयः ततस्तेषु उपवनेषु, तथा परिश्यामिता:-कृष्णीकृताः सान्द्रमेघाच्छादनात, पाठान्तरेण परिभ्रामिता:-कृतप्रभाभ्रंशाः चन्द्रसूरग्रहाणां यस्मिन् प्रनष्टा च नक्षत्रतारकप्रभा यसिंस्तत्तथा तस्मिन्नम्बरतले इति योगः, इन्द्रायुधलक्षणो बद्ध इव बद्धः चिहपहो-ध्वजपटो यसिंस्तत्तथा तत्राम्बरतले-गगने उड्डीनबलाकापकिशोभमानमेघवृन्देऽम्बरतले इति योगा, तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते उक्तलक्षणयोगेन समागते प्रावृषि काले, किंभूता अम्मयाओ ? इत्याह-'हायाओ'इत्यादि, किं ते इति किमपरमित्यर्थः, वरौ पादप्राप्तनपुरी मणिमेखला-II रखकाची हारश्च यासा तास्तथा रचितानि-न्यस्तानि उचितानि-योग्यानि कटकानि-प्रतीतानि खुडुकानि चअङ्गुलीयकानि यासां तास्तथा विचित्रैर्वरवलयैः स्तम्भिताविव स्तम्भिती भुजौ यासां तास्तथा ततः पदत्रयस्य कर्मधारयः ।। तथा "कुंडलोज्योतितानना बरपायपत्तनेउरमणिमेहलाहाररइयचियकडगखुड्डयएगावलिकंठमुरयतिसरयवरवलयहेमसुत्तकुंडलुजोवियाणणाओ"त्ति पाठान्तरं तत्र वरपादप्राप्तनपुरमणिमेखलाहारास्तथा रचितान्युचितानि
[१८]
| अकाल मेघस्य दोहद (मनोरथ)
~56~