________________
आगम
(०६)
ཙྪཱ + ཡྻ
सूत्रांक [१२]
अनुक्रम [१५-१७]
श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित
“ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
----- अध्ययनं [१],
• मूलं [१२] + गाथा: आगमसूत्र - [ ०६ ], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्वप्न फल कथनं
अवतरणं तेन प्रारब्धम् आरब्धमभिभवितुमिति गम्यते अपराद्धं वा विनाशितं दिनकरपरम्परावतारप्रारब्धं तस्मिन् सति इह (च तस्येति सापेक्षत्वेऽपि समासः, तथा दर्शनादन्धकारे - तमसि तथा बालातप एवं कुङ्कुमं तेन खचिते इव जीवलोके सति, तथा लोचनविषयस्य दृष्टिगोचरस्य योऽणुयासोन्ति-अनुकाशो विकाशः प्रसर इत्यर्थस्तेन विकसंवासी वर्द्धमानो विशदश्वस्पष्टः स वासौ दर्शितथेति लोचनविषयानुकाश विशददर्शितस्तसिन्, कस्मिन्नित्याह- लोके अयमभिप्रायः - अन्धकारस्य क्रमेण हानी लोचनविषयविकाशः क्रमेणैव भवति स च विकसन्तं लोकं दर्शयत्येव, अंधकारसद्भावे दृष्टेरप्रसरणे लोकस्य संकीर्णस्येव प्रतिभासनादिति, तथा कमलाकरा-हदादयस्तेषु षण्डानि-नलिनीपण्डानि तेषां बोधको यः तस्मिन् उत्थिते-उदयानन्तरावस्थावासे 'सूरे' आदित्ये किंभूते ?- सहस्ररमौ तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति । 'अणसाल' चि अनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनं च-उल्ललनं व्यामर्दनं च परस्परेण वाडायङ्गमोटनं मल्लयुद्धं च प्रतीतं करणानि च वाडुभङ्गविशेषा मल्लशास्त्रप्रसिद्धानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकुलो यत्पकं शतेन वा कार्षापणानां यत्पकं तच्छतपकमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः | आदिशब्दाद घृतकर्पूरपानीयादिग्रहः किम्भूतैः १- 'प्रीणनीयैः' रसरुधिरादिधातुसमता कारिभिद्दीपनीयैः - अभिजननैः दर्पणीयैः- बलकरैः मदनीयैः- मन्मथबृंहणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगे:- स्नेहनैः अभ्यंगः क्रियते यस्य सोऽभ्यङ्गितः सन् ततस्तैलचर्मणि तैलाभ्यक्तस्य संबाधनाकरणाय यच्चर्म तत्तैलचर्म तस्मिन् संवाहिते 'समाणेत्ति योगः, कैरित्याह :- पुरुषः, कथम्भूतैः ?- प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि - अतिकोमलानि तलानि - अधोभागा येषां ते
For Parts Only
~46~
nary org