________________
आगम
(०६)
प्रत
सूत्रांक
[३२]
दीप
अनुक्रम
[४२]
“ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः)
अध्ययनं [२],
मूलं [३२]
श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
ज्ञाताधर्म
कथाङ्गम्.
॥ ७८ ॥
'जण 'मित्यादि, कण्ठ् 'एवं खल्वि'त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगमं चैतत्सर्वं नवरं जीर्णोद्यानं चाप्यभूत्, चापीति समुच्चये अपिचेत्यादिवत्, विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च यत्र तत्तथा, नानाविधा ये गुच्छा-वृन्ताकीप्रभृतयः गुल्मा वंशजालीप्रभृतयः लताः - अशोकलतादयः वल्पः - पुपीप्रभृतयः वृक्षाः - सहकारादयः तैः छादितं यत्तत्तथा, अनेकैर्व्यालशतैः- श्वापदशतैः शङ्कनीयं भयजनकं चाप्यभूत्, शङ्कनीयमित्येद्विशेषणसम्बन्धतात्क्रियावचनस्य न पुनरुक्तता, 'मालुकाकच्छप'चि एकास्थिफलाः वृक्षविशेषाः मालुका: प्रज्ञापनाभिहितास्तेषां कक्षो गहनं मालुकाकक्षः, चिर्भटिकाकच्छक इति तु जीवाभिगमचूर्णिकारः । 'किण्हे किन्होभासे' इह यावत्करणादिदं दृश्यं, "नीले नीलोभासे, हरिए हरिओभासे सीए सीओभासे निद्वे निदोभासे तिचे तिवोभासे किन्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीधे सीयच्छाए निद्धे निदूच्छाए तिबेतिबच्छाए घणक डियडच्छाए "त्ति कृष्णः कृष्णवर्णः अञ्जनवत् स्वरूपेण कृष्णवर्ण एवावभासते - द्रष्टृणां प्रतिभातीति कृष्णावभासः, किल किञ्चिद्वस्तु स्वरूपेण भवत्यन्यासं प्रतिभासते तु सन्नि धानविप्रकर्षादेः कारणादन्यादृशमिति, एवं कचिदसौ नीलो मयूरग्रीवेव कचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धाः, तथा | शीतः स्पर्शतः वल्याद्याक्रान्तत्वादिति च वृद्धाः, स्निग्धो न रूक्षः तीव्रो वर्णादिगुणप्रकर्षवान् तथा कृष्णः सन् वर्णतः कृष्णच्छायः, छाया च-दीप्तिरादित्य करावरणजनिता वेति, एवमन्यत्रापि 'घणकडियडच्छाए ति अन्योऽन्यशाखा प्रशाखानुप्रवेशात् घननिरन्वरच्छायो रम्यो महामेघानां निकुरम्बः- समूहस्तद्वद् यः स महामेघनिकुरम्बभूतः, वाचनान्तरे त्विदमधिकं पठ्यते-'पत्तिए पुष्फिए फलिए हरियगरेरिजमाणे ' हरितकथासौ रेरिअमाणेति भृशं राजमानश्व यः स तथा “सिरीए अईव २ उनसोमेमाणे चिट्ठ ेत्ति
Education Internationa
For Park Use Only
~159~
२ संघाट
ज्ञातं सू. ३२
11 12 11