________________
आगम
(०६)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम [३७]
“ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:)
अध्ययनं [१],
मूलं [२७]
श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तथा पाण्डुरा :- शुक्लाः सुविशुद्धा: - निर्मलाः स्त्रिग्धाः - कान्ता निरुपहताः- एफोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ ! बहुभिर्हस्त्यादिभिः सार्द्ध संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः । तत्र हस्तिन:- परिपूर्ण प्रमाणाः लोट्टकाः कुमारकावस्थाः कलभाः - बालकावस्थाः हस्तिसहस्रस्य नायकः- प्रधानः न्यायको वा देशको हितमार्गादेः प्राकर्षीप्राकर्षको अग्रगामी प्रस्थापको - विविधकार्येषु प्रवर्तको यूथपतिः- तत्स्वामी वृन्दपरिवर्द्धकः - तद्वृद्धिकारकः 'सई पललिए 'ति सदा प्रललितः प्रक्रीडितः कन्दर्परतिः - केलिप्रियः मोहनशीलो - निधुवनप्रियः अवितृप्तो मोहने एवानुपरतवाञ्छ:, तथा सामान्येन कामभोगेऽतृषितः गिरिषु च पर्वतेषु दरीषु च कन्दरविशेषेषु कुहरेषु च पर्वतान्तरालेषु कन्दरासु च गुहासु उज्झरेषु च- उदकस्य प्रपातेषु निर्झरेषु च स्यन्दनेषु विदरेषु च क्षुद्रनथाकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु वा गर्तासु च प्रतीतासु पल्बलेषु च प्रह्लादनशीलेषु चिललेषु च चिक्खिलमिश्रेषु कटकेषु च पर्वततटेषु कटकपल्वलेषु - पर्वततटन्य स्थितजलाशय विशेषेषु तटीषु च नद्यादीनां तटेषु वितटीषु चतास्येव विरूपासु अथवा वियडिशन्देन लोके अटवी उच्यते, टकेषु च -एकदिशि छिन्नेषु पर्वतेषु कुटकेषु च अघोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु हस्त्यादिवन्धन स्थानेषु वा शिखरेषु च पर्वतोपरिवर्त्ति कूटेषु प्राग्भारेषु च - ईषदवनतपर्वतभागेषु मचेषु च स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु मालेषु च श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मश्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु अथवा यत्परतः पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणि वा तेषु वनेषु च एकजातीयवृक्षेषु वनखण्डेषु च अनेकजातीयवृक्षेषु वनराजीषु च एकानेकजातीयवृक्षाणां पतिषु नदीषु च प्रतीतासु नदीकक्षेषु च तद्गहनेषु यूथेषु च वानरादियू
Education intention
मेघकुमारस्य पूर्वभवाः
For Pass Use Only
~ 136~