________________
प्रमेयरनमाला यत्तावधारणमपि विघटत इति लोकायतिकदृष्टान्तद्वारेण तन्मतेऽपि संख्याभासमिति दर्शयतिसौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमो
पमानार्थापत्यभावैरेकैकाधिकैर्व्याप्तिवत् ॥ ५७ ॥ यथा प्रत्यक्षादिभिरेकैकाधिकाप्तिः प्रतिपत्तुं न शक्यते सौगतादिभिस्तथा प्रत्यक्षेण लौकायतिकैः परबुद्धयादिरपीत्यर्थः ॥ अथ परबुद्धयादिपतिपत्तिः प्रत्यक्षेण माभूदन्यस्माद्भविष्यतीत्याशङ्कयाह
अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥ ५ ॥ तच्छन्देन परबुद्ध्यादिरभिधीयते । अनुमानादेः परबुद्ध्यादिविषयत्वे प्रत्यकममाणवादो हीयत इत्यर्थः ॥ अत्रोदाहरणमाह
तर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम् ।
अप्रमाणस्याव्यवस्थापकत्वात् ॥ ५६ ॥ सौगतादीनामिति शेषः॥ किश्च प्रत्यक्षकप्रमाणवादिना प्रत्यक्षायेकैकाधिकप्रमाणवादिभिश्च स्वसंवेदनेन्द्रियप्रत्यक्षभेदोऽनुमानादिभेदश्च पतिभासमेदेनेव वक्तव्यो गत्यन्तराभावात् । स च त दो लोकायतिकं प्रति प्रत्यक्षानुमानयोरितरेषां व्याप्तिज्ञानप्रत्यक्षादिप्रमाणेष्विति सर्वेषां प्रमाणसंख्या विघटते ॥ तदेव दर्शयति
प्रतिभासभेदस्य च भेदकत्वात् ॥ ६॥ इदानीं विषयाभासमुपदर्शयितुमाह
विषयाभासः सामान्यं विशेषो द्वयं वा स्वतंत्रम् ॥६१ ॥ कथमेषां तदाभासतेत्याह
तथाप्रतिभासनात्कार्याकरणाच ॥ ६२ ॥ किश्च तदेकान्तात्मकं तत्त्वं स्वयं समर्थमसमर्थ वा कार्याकारि स्यात् ! मथमपने क्षणमाह
समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥ ६३॥ ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org