SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ (७१२) श्रेयांसनाथ-पञ्चतीर्थीः सं० १५२४ वर्षे फागुण सुदी ७ दिने श्रीमालज्ञातीय ठाकुरगोत्रे सा० जयता पु० सा० मांडण सुश्रावकेन पु० झांझणादि सहि० श्रीश्रेयांसबिंबं का० प्र० खरतरगच्छे श्रीजिनचन्द्रसूरिभिः मण्डपदुर्गे। (७१३) एकतीर्थीः १ संवत् १५२४ वर्षे. ...म दे पु.... २ ............सराज...... ...................शिष्य श्रीजिनचंद्रसूरिभिः (७१४) अम्बिका-मूर्तिः संवत् १५२४ वर्षे खरतरगच्छे श्रीजिनहर्षसूरिआदिः मुहतागोत्रे स० भीमसी भा० नायकदे। अंबिकादेवी कारापिता॥ (७१५) कीर्तिरत्नसूरि-स्तूप-प्रशस्तिः श्रीवर्द्धमानदेवस्य शासनं जयताच्चिरम्। अद्यापि यत्र दृश्यन्ते बहु सर्वा नरोत्तमाः॥१॥ किं कल्पद्ररयं व्यधायि विधिना किं वा दधीची: शुचिः, किं वा कर्णनरेश्वरः पुनरसौ भूमण्डले वाचरत् । यं दृष्ट्वेति वितर्कयन्ति कवयो दानं ददानं धनं, श्रीवीदाधिपभूपतिः सजयति श्रीभोजराजाङ्गजः ॥ २॥ प्रतापतपनाक्रन्ताः श्रीवीदा पृथिवीपते। घूका इवारयः सर्वे सेवन्ते गिरिकन्दराः ॥३॥ तथाहि ___ श्रीऊकेशवंशे श्रीशंखवाले शाखायां सा। कोचरसन्ताने सा० रतना भार्या मोहणदेवी पुत्रौ सा० आपमल्ल सा० देपाभिधानो धनिनो बभूवतुः सा० आपमल्ल- पुत्राः सा० पेथा सा० भीमा सा० जेठाख्या अभवन् । सा० देपा भार्या देवलीदेवी पुत्रा: सा० लक्खा सा० भादा सा० केल्हा सा० देल्हाभिधा धनवन्तः। तेषु च सा० देल्हाकः श्रीखरतरगच्छे श्रीजिनवर्धनसूरिकरे सं०: १४३६ आषाढाद्य ११ दिने दीक्षां लात्वा, सं० १४७० वर्षे श्रीर्कीतिराजगणि वाचनाचार्यो भूत्वा, संवत् १४८० वर्षे वैशाखसुदि १० दिने श्रीजिनभद्रसूरिकरे उपाध्यायपदं प्राप्य, सं० १४९७ माघसितदशम्यां श्रीजेसलमेरौ श्रीजिनभद्रसूरिहस्ते स्वभातृ सा० लक्खा सा० केल्हा कारितानि विस्तारोत्सवे श्रीभावप्रभसूरिपटटे श्रीकीर्तिरत्नाचार्या बभूवतुः। ते चोत्तरदिशादिषु प्रतिबोधितानेकनवीनश्रावकसंघाः, गीतार्था कृताः श्रीलावण्यशीलोपाध्याय वा० शान्तिरत्नगणि वा। क्षान्तिरत्नगणि वा। धर्मधीरगणि अनेकशिष्यवर्गाः। तत आत्मायरन्तं विज्ञाय पंचदशोपवासैः प्रथमं संलेखनं कृत्वा, षोडशोपवासि सदा साहसिकतयाऽर्हदादीन् साक्षीकृत्य चतुर्विधसंघसमक्षं स्वमुखेनानशनं गृहीत्वा, पालयित्वा दशदिनान्, एवं पञ्चविंशति दिनान् शुभध्यानतोऽतिवाह्य,सं० १५२५ वैशाखवदि ५ पञ्चम्यां श्रीवीरमपुरे स्वर्गं प्रसूताः। तस्मिन् दिने तत्पुण्यानुभावतः श्रीजिनविहारे स्वयं प्रादाव्य प्रदीपा: स्पष्टं बभूवतुरिति। ... तस्मिन् श्री राठोडवंशचूडामणिः श्री वीदानामनरेश्वरः स्वयं स्थापित श्रीवीरमपुरे न्यायराज्यं प्रतिपालयति सति, तदादेशात् सा० केल्हा भार्या केल्हणदेवी पुत्र सं० धन्ना सं० मना सं० माला सा० गौरा ७१२. मालवाचंल के जैन लेख, लेखांक २७६ ७१३. श्रीगंगा गोल्डेन जुबली म्यूजियम,बीकानेर: ना० बी०, लेखांक २१५६ ७१४. चन्द्रप्रभ जिनालय, जानीशेरी, बडोदरा : जै० धा० प्र० ले० सं०, भाग २, लेखांक १४८ ७१५. यह स्तूप प्रशस्ति अब प्राप्त नहीं हैं। किन्तु बाडमेर के खरतरगच्छीय ज्ञान भण्डार में एक पत्र लिखित प्राप्त है। (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) (१२५) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy