________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे कृदन्तप्रक्रियायां कृत्यप्रत्ययाधिकारः राप्यं लाप्यम् अभिलाप्यं । अपत्राप्यं । डेप्यम् ? दभिः सौत्रो वञ्चने । (बन्धने ) दाभ्यं । आचाम्यं । आनाभ्यम् । नमिरन्तर्भूतण्यर्थः सकर्मकः । अकर्मका अपि धातवो ण्यर्थे वर्तमानाः सकर्मकाः स्युः । यथा नेमि नमन्ति नमयन्तीत्यर्थः । डिपेः कुटादित्वाद्ये-गुणो न लभ्यते इति ध्यण-विधीयते । आनमेनेंच्छन्त्येके । 'वाधारेऽमावस्या' (५।१।२१) अमापूर्वाद्वसतेराधारे ध्यण पक्षे ह्रस्वश्च वा निपात्यते । सह-वसतोऽस्यां चन्द्राौं इत्यमावास्या अमावस्या वा । रूढ्या तिथिविशेषः । पक्षे५ यमकृत्वा ह्रस्वत्वनिपातनं 'अश्च वामावास्यायाः' (६।३।१०३) इत्यत्रैकदेशस्यानन्यत्वादमावस्याशब्दस्यापि ग्रहणार्थम् । 'सञ्चाय्यकुण्डपाय्यराजसूयं क्रतो' (५।१।२२) एते ऋतावभिधेये घ्यणन्ता निपात्यन्ते, आधारे कर्मणि वा। निपातनादेवायादेशदीर्घत्वे अपि भवतः । सञ्चीयते सोमोऽस्मिन् सञ्चीयते असौ इति वा सञ्चाय्यः क्रतुः । सञ्चयोऽन्यः । कुण्डैः पीयते सोमोऽस्मिन् कुण्डैः पीयते इति वा कुण्डपाय्यः क्रतुः । ससोमको हि यागः क्रतुः । कुण्डपानोऽन्यः ॥१० राजा सूयतेऽस्मिन् राज्ञा वा सोतव्यः इति राजसूयः क्रतुः । 'प्रणाय्यो निष्कामासम्मते' (५।१।२३ ) प्रपूर्वान्नयतेय॑ण् आयादेशश्च निपात्यते । अनयोरर्थयोः । प्रणाय्योऽन्तेवासी । विषयेष्वनभिलाषः इत्यर्थः । प्रणाय्यश्चौरः । सर्वलोकासम्मत इत्यर्थः। प्रणेयोऽन्यः । “धाय्यापाययसान्ना
यनिकाय्यमृङ्मानहविर्निवासे (५।१।२४) धाय्यादय ऋगादिष्वर्थेषु यथासङ्ख्यं ध्यणन्ता निपात्यन्ते । निपातनादेव सर्वत्रायादेशः । दधाते–चि, धीयते समिदनावनयेति धाय्या ऋक् । १५ रूढिशब्दत्वात्काश्चिदेव ऋच उच्यन्ते । खग धाय्या धिगधैर्यधारिणः इति नैषधीये (द्वि. स.)। अन्यत्र धेया । मीयते येन तन्मानं । तत्र माङ आदिपत्वं च । मीयतेऽनेनेति पाय्यं मानम् । मेयमन्यत् । सम्पूर्वान्नयतेहविषि समो दीर्घत्वं च । सान्नाय्यं हविः । रूढ्या हविर्विशेष एव । सन्नेयमन्यत् । निपूर्वाचिनोतेर्निवासे आदिकत्वं च । निकाय्यो निवासः । निचेयमन्यत् । 'परिचाय्योपचाय्यानाय्यसमूह्यचित्यमग्नौ' (५।१।२५) एतेऽनौ निपात्यन्ते । पर्युपपूर्वाचिनोतेय॑ण् आया-२० देशश्च । परिचीयते इति परिचाय्योऽग्निः । एवमुपचाय्यः । परिचय उपचेयोऽन्यः । आङ्पूर्वानयतेय॑ण आयादेशश्च । गार्हपत्यादानीयते इत्यानाय्यो दक्षिणाग्निः । रूढ्याऽऽहवनीयेन सहैकयोनिरेवोच्यते । आनेयोऽन्यः । आहवनीयोऽग्निर्दक्षिणाग्निश्च निर्वाणौ गार्हपत्यादेवानीयेते । अतो द्वावप्येकयोनी; गार्हपत्याग्निस्त्वरणिनिर्मथनादेवोत्पाद्यते इति न स आनाय्यः । केचिदग्निविशेषादन्यत्राप्यनित्यविशेष इच्छन्ति । आनाय्यो गोधुक् अनित्य इत्यर्थः । सम्पूर्वाद्वहेय॑ण वशब्दस्य २५ ऊत्वं च । समूह्यते इति समूह्यः । अन्यत्र संवाह्यः । अन्ये तु सम्पूर्वादूहोऽमावेवेति नियमार्थ ध्यणं निपातयन्ति । अमेरन्यत्र समूहितव्य इत्येव । वहेस्तु तन्मतेऽनावपि संवाह्य इति भवति । चिनोते: क्यप् । चित्योऽग्निः । चेयोऽन्यः । 'याज्या दानर्चि' (५।१।२६) यजेः करणे ध्यण निपात्यते । दानय॑भिधेयायाम् । इज्यतेऽनयेति याज्या । 'त्यजयजप्रवचः' इति गत्वाभावः । इति घ्यणप्रत्ययप्रकरणम् -- ॥ २१३ ॥ सूत्रम्
तव्यानीयौ ॥ २१४ ॥ [सि० ५।१।२७] धातोरेतौ स्तः । कर्त्तव्यः करणीयः कटः ॥२१४ ॥ 'तव्या०' शयितव्यम् शयनीयम् । वस्तव्यम् वसनीयम् । कर्त्तव्यम् करणीयम् । मवता कर्त्तव्यः करणीयः कटः ॥ २१४ ॥ सूत्रम्
है. प्रका० उत्त. १२४
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org