________________
॥अध्यात्मविन्दुः ॥
॥ द्वितीया द्वात्रिंशिका ॥ मूर्छा विषान्मणेर्दाहाभावो भ्रामकतो भ्रमः। चुम्बकात् कर्पणं चेति नाना पुद्गलशक्तयः ॥१॥ ज्ञानावृत्यादयोऽप्येते पुद्गला दृढशक्तयः । जीवशक्ति बलाद् भक्त्वा कुन्त्याशु विकारिणीम् ॥२॥ मद्यान्मौढयं धियस्तैक्ष्ण्यं दृष्टं ब्राह्मीहविष्यतः । कर्मापि पौद्गलं तद्वत् कथं न स्याद् विकारकृत् ? ॥३॥ अविद्या हि विकारित्वं जनयेदात्मनः सती । नासती गगनाब्जस्येवासतोऽर्थक्रियाच्युतेः ॥४॥ सत्त्वे द्वैत ततः कर्म पौद्गलं तद्विकारकृत् । अनुग्रहोपघातौ यत् पुद्गलेभ्य इति श्रुतेः ॥५॥ अनादित्वादनन्तः स्यात् संश्लेषः कर्म-जीवयोः । स्वात्मयोगवदित्येवं प्रवितक्यं न तार्किकैः ॥६॥ अनादित्वेऽपि भावस्य ध्वंसः स्याद्धेतुसन्निधेः । सुवर्णमलवद् भव्यसंसारपरिणामवत् ॥७॥' कर्ताऽयं स्वस्वभावस्य परभावस्य न कचित् । कर्ताऽऽत्मेति श्रुतिः साक्षाद् यत् स्वभावक्रियापरा ॥८॥ अशुद्धनिश्चयेनायं कर्ता स्याद् भावकर्मणः । व्यवहाराद् द्रव्यकर्मकर्तृत्वमपि चेष्यते ॥९॥ व्याप्यव्यापकभावो हि यदिष्टः कर्तृ-कर्मणोः । तदभावे द्रव्यकर्मकर्तृत्वं घटते कथम् ? ॥१०॥ तदात्मनि भवेद् व्याप्तृव्याप्यता नातदात्मनि । तदभावे कथं कर्तृकर्मता जीव-कर्मणोः ? ॥११॥ निमित्त नैमित्तिकते कर्माऽऽत्मपरिणामयोः ।
तस्मादस्तुभ्रामकाश्मायसकृत्योरिव स्फुटम् ॥१२॥ १ पु-प्रतौ तु–भुवर्णमलघत् कर्म भव्यस्य परिणामवत्' ॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org