________________
द्वात्रिशिका
अध्यात्मबिन्दुः
TETrict . तथा विष्वक सवेतःप्र
Saturdtcoma श यद्, अच्चि : के
amirSTIYmart
तेजस्तेन परिगत
व्याप्तं निष्प्रतिघविजृम्भितसहजचिच्छक्तिभरनिर्भरमित्यर्थः । तदेव स्वानुभवप्रत्यक्षम् अहम् तत्त्वमस्मि । निरस्तसकलोपाधि स्वसत्तामात्रद्योतितपरंभावविवेक द्रव्यान्तरसंपर्कशून्यं चिच्छक्तिव्याप्तसर्वस्वं परमं तत्त्वमहमस्मीति भावः ॥३१॥
द्वात्रिंशिकार्थमुपसंहरन्नाह
इत्येवं संप्रधार्य द्रुततरमखिलं भेदसंविद्वलेन ___' जीवाजीवप्रपञ्च विदलति किल यो मोहराजानुवृत्तिम् । ज्ञानानन्दस्वरूपे भगवति भजति स्वात्मनि स्थैर्यमाशु प्रक्षिप्याज्ञानभावं स भवति नचिराच्छुद्धबुद्धस्वरूपः ॥३२॥
इति अध्यात्मबिन्दौ
सदुपाध्यायश्रीमद्धर्षवर्धनविरचिता निश्चयव्यवहारप्ररूपणप्रवणा प्रथमद्वात्रिशिका समाप्ता व्याख्या—इत्येवं पूर्वोक्तप्रकारेण । भेदसंविद्वलेन आत्मेतरपदार्थानामात्माऽनात्मविवेकज्ञानसामर्थेन । अखिलं [ जीवाजीवप्रपञ्चं धर्माधर्मादिद्रव्यकदम्बकं स्व-परपरिणामसमुपात्तद्वैततयोपात्तद्रव्यभाववैश्वरूप्यं जीवाजीव-पुण्य-पापादिरूपं वा]' जीवाजीवपदेन नवानामपि तत्त्वानां ग्रहणं जीवाजीवपरिणामरूपत्वात् तेषाम् द्रुततरं संप्रधार्य स्वभाव-परभावतया निश्चित्य यः किल मोहराजानुवृत्तिं विदलति आसंसारात् समस्तपरद्रव्येष्वात्मात्मीयबुद्धया प्रसह्यात्मानं खेदयतः स्वरसमात्मनि सङ्क्रमय्य भावकत्वेन भवतो मोहस्यानुवृत्तिं तदानुकूल्येन प्रवृत्तिं विदलति निरुणद्धि । तथा ज्ञानानन्दस्वरूपे भगवति आत्मनि आशु स्थैर्य भजति कर्मतत्फलसंन्यासपूर्वकं क्रियान्तरविहारनिरोधेन स्वस्मिन्नेव स्थेमानमास्तिनुते स पुमान् , अज्ञानभाव प्रक्षिप्य नचिरात् अल्पीयसाऽनेहसा शुद्धबुद्धस्वरूपो भवति । तत्र शुद्धत्वमवगुण्ठितात्मप्रदेशानां कर्मरजसां संमूलोत्सारणात् , बुद्धत्वं तु स्वरूपप्रत्यक्षीक(का)रात् । अयं भावः-पुरुषार्थः किलास्यात्मनो जीवाजीवावगमपूर्वकं मोहानुवृत्तिनिर्दलनम् , तस्मिन् सत्येव जीवाजीवावबोधस्य साफल्यात् । मोहनिईलनं च स्वात्मस्थैर्यमन्तरेण नोपपद्यते । तद्धि आसूत्रयमाणानां द्रव्याणां द्रव्यान्तरप्रतिबन्धाभावादेव मनसोऽनन्यविषयतयाऽयत्नसिद्धं मोहक्षपणं स्यात् । स्वरूपग्रहणमुपलक्षणं पररूपस्यापि, आत्मावबोधस्य सर्वावबोधनान्तरीयकत्वात् । तथाहि-आत्मा हि ज्ञानमयः गुण-गुणिनोरभिन्नसत्ताकत्वात् , ज्ञानं तु प्रति
१ कोष्ठान्तर्गतः पाठः ला प्रतौ नास्ति ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org