________________
१०
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा व्याख्या-इह जगति यथा भूताविष्टो नरः अज्ञानतः स्व-परविवेकानवबोधात् स्वम् आत्मानं भूतं चैकीकुर्वन् विसदृक्चेष्टितानाम् अमानुपोचितविशिष्टधावन-वल्गनासम्बद्वभाषितादिचेष्टानां विधाता भवति तथा अयमात्मापि निज-परविवेकच्युतः स्व-परयोरेकत्वाध्यासाद् आत्म-परयोविवेकमलभमानः शुद्धचिददूषकाणां काम-कोपादीनां नितरां कर्ता प्रतिभाति । आत्मा हि कामादिपरिणतिक्षणे तन्मयत्वेन व्यापकीभूय तत्परिणामानां कर्ता भवति । कामादयो स्वपरिणतिक्षणे तन्मयत्वेन व्याप्यत्वाद् आत्मनः कर्म भवन्ति । परिणामिनः कर्तृत्वोक्तौ परिणामानां कर्मत्वमर्थादेवाऽऽपद्यते निश्चयेन कर्तृकर्मणोरव्यतिरेकात् । अयं भावःयथाऽयमात्माऽनौपाधिकस्य स्वलक्षणभूतस्य कालत्रयेऽप्यात्मनोऽविप्वग्भूतस्य ज्ञानस्यात्मन च भेदमपश्यन्नात्मतया ज्ञाने वर्तते तथाभूत च ज्ञानक्रियाया अप्रतिपिद्धत्वाज्जानाति तथा सोपाधिकस्यास्वलक्षणभूतस्य कालत्रयेऽप्यात्मनो विष्वग्भूतस्य कोधादेरात्मन च विवेकाऽऽलोकानुद्गमाद् भेदमपश्यन्नात्मतया क्रोधादिपु वर्तते तथाभूत च निषिद्धानामपि क्रोधादिक्रियाणामात्मीकरणात् क्रुद्धयति रज्यते कामयते; ततश्च तत्तन्मोहविकारैरात्मानं कलुपीकुर्वन् परभावकर्तृतामात्मन्युपढौकमानो न कदाचिदपि स्वरूपाभिमुखी भवति, नित्यं कर्तृभावमेवावलम्बते ।।२०॥
अथ स्वभावकर्तृत्ववत् परभावकर्तृत्वे महान् दोषोपनिपात इत्याह--- व्याप्यव्यापकभावतः प्रकुरुते जीवः स्वभावान् यथा
भावाद् वेदकवेद्यतोऽनुभवति स्वांस्तान् स्वभावान् पुनः । तद्वद् वेदयतेऽथवा प्रकुरुते भावान् परांश्चेदयं ।
स्यादेवं हि कृतिद्वयस्य करणात् सिद्धान्तवाधः स्फुटम् ॥२१॥ व्याख्या-जीवः यथा व्याप्य-व्यापकभावतः स्वभावान् प्रकुरुते । स्वस्य भावाः स्वभावाः शुद्धाशुद्धरूपाः स्वपरिणामास्तान् । भावशब्दोऽत्र परिणामचाची । परिणाम-परिणामिनोच तादात्म्यम् एकवस्तुत्वात् । वस्त्वेव हि तन्नानाकारतया विवर्तते । द्रव्यं हि मयूराण्डकललवत् सम्मूर्छितसर्वभेदप्रभेदं द्रव्यादिसामग्रीमवाप्य तत्तवृत्त्यन्तरव्यक्तिरूपेण व्यपदिश्यते-'जायते अस्ति विपरिणमते वर्धते अपक्षीयते अपचीयते विनश्यति' इत्यादि । तथाहि-एकमेव मृद्र्व्यं पिण्डातिरिक्तवृत्त्यन्तररूपतया परिणममानं जायत इत्युच्यते, सव्यापारा हि भवनवृत्तिः । 'अस्ति' इत्यनेन निर्व्यापारा आत्मसत्ता आख्यायते; भवनवृत्तेरुदासीनं हि 'अस्ति' इत्युच्यते । 'विपरिणमते' इत्यनेनापि तिरोभूतात्मरूपस्यानुच्छिन्नतथावृत्तिकस्य रूपान्तरेण भव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org