________________
Jain Education International
१६
हर्षवर्धनोपाध्यायनिबद्धः
वर्तमानतत्पर्यायाद् अन्यद् द्रव्यम् । तदुक्तम्
भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् ||
-
[ प्रथमा
वर्तमानतत्पर्यायो भावः । तदुक्तम् —
भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभावात् ॥
नयः प्रमाणप्रतिपन्नार्थैकांशग्राही । स द्विविधः - द्रव्यार्थिकः पर्यायार्थिकश्च । तत्र द्रव्य - पर्यायात्मके वस्तुनि द्रव्यं यो मुख (ख्य ? ) तया व्यवहरति स द्रव्यार्थिकः । शुद्धाशुद्धनिश्चयावप्यत्रैवान्तर्भवतः, अभेदानुपचरिततया वस्तुनो निश्चयात् । यस्तु पर्यायं मुख्यतया व्यवहरति स पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रिधा -- नैगम-सङ्ग्रहव्यवहारभेदात् । पर्यायार्थिक चतुर्धा - ऋजुसूत्र शब्द समभिरूढैवंभूतभेदेनेति । एते सर्वेsपि वर्तमाने पदे स्थिताः विकल्परूपत्वेनैषां शुद्धवस्त्ववबोधार्थप्रवणो हि व्यापारः । एतैर्हि सम्यक् स्व- परविभागपूर्वकं बोधिताः शिष्याः सुष्ठु वस्तु परिच्छिन्दन्ति । ततश्च निर्विकल्पपदवीमनधिरूढानां सविकल्पपदे वर्तमानानां धर्मधर्मिशुद्धाशुद्धभेदाभेदादिविवेचनार्थं तदाले प्रयोजनवन्तोऽप्येते नित्यनिर्विकल्पानन्दघनपरमसमाधिप्रपन्नानां नार्थक्रियाकारिण इति । एतदेवाह — प्रपश्यताम् इति । शान्तं प्रलीनवासनोन्मेपतयाऽनाकुलम् । अनन्तम् इति आविद्यक संसारित्व पर्यायप्रध्वंसेऽपि नित्यानन्दस्वरूपेणाऽऽयतौ निरवधिप्रतपनाद् अन्तरहितम् । ऊर्ध्वम् इति कर्तृत्व-भोक्तृत्वादिभावव्यपोहपूर्वकं बन्ध-मोक्षपद्धतेरूर्ध्वं वर्तमानं पदम् आत्माख्यं वस्तु प्रपश्यतां साक्षाद् अनुभवतां योगिनाम् एषां प्रमाणादीनां कतमोऽपि न भाति । साध्यसिद्ध्यर्थं हि कारकचक्रप्रक्रियापर्येषणं प्रामाणिकानां प्रसिद्धम्, परिनिष्टिते तु कार्ये न तदुपयोगो दण्डादिवदेवेति सिद्धं प्रमाणादीनामधः पदे वर्तमानत्वम् ॥१३॥
अथ बन्धादयोऽपि कर्मजा भावा न त्वात्मस्वरूपभूता इत्यावेदयति---- वन्धोदयो दीरणसत्त्वमुख्याः
भावाः प्रबन्धः खलु कर्मणां स्यात् । एभ्यः परं यत्तु तदेव धामा
ऽस्म्यहं परं कर्मकलङ्कमुक्तम् ||१४||
व्याख्या - सकषायस्य जीवस्य कर्मयोग्यपुद्गलादानं बन्धः । तथा च वाचकः ‘सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्ध:' [ तत्त्वार्थसूत्र, ८. २] । स च
For Personal & Private Use Only
www.jainelibrary.org