________________
१२ हर्षवर्धनोपाध्यायनिवद्धः
[प्रथमा क्रोडीकृतम् । स्याद्वादबलेनोभयोरपि विरोधमपोह्य कृतमैत्रीकयोः परस्परसापेक्षयोरेवाङ्गीकरणात् । तथैव वस्तुव्यवस्थितिसिद्धेनॆरपेक्ष्ये हि सर्वं विप्लवेत् । तदुक्तम्
"जइ जिणमयं पवज्जह ता मा ववहार-निच्छए मुअह ।
एक्केण विणा छिज्जइ तित्थं, अण्णेण उण तच्चं पि ॥ ८॥ अथाऽपवर्गमूलत्वेन भेदज्ञानमभिष्टौतिये यावन्तो ध्वस्तवन्धा अभूवन्
___भेदज्ञानाभ्यास एवात्र वीजम् । नूनं येऽप्यध्वस्तवन्धा भ्रमन्ति
तत्राभेदज्ञानमेवेति विद्मः ॥९॥ व्याख्या-ये यावन्तः केचन प्राकाले ध्वस्तबन्धाः ज्ञान-क्रियासमुच्चयसमनुष्टानेन निळूनकर्माणः अभूवन् अत्र बन्धध्वंसे भेदज्ञानाभ्यास एव वीजम् । अयमर्थः-प्रकृति-पुरुपयोविवेकख्यातौ जातायामेव कियमाणस्य कर्मणः सम्यग्ज्ञानमूलकत्वेन बन्धापनयनं प्रति सामर्थ्यम् । तदविवेकख्यातौ तु मोच्य-मोचकयोर्याथारम्यानवगमात् कस्य मोक्षाय प्रयतताम् । परद्रव्यविभागेन परद्रव्योपरज्यमानस्वधर्मविभागेन च आत्मन एकाग्रचिन्तने ह्यासंसाराबद्धदृढतरमोहग्रन्थेरुद्ग्रन्थनं स्यात् , ततस्तन्मूलराग-द्वेपक्षपणम् , ततस्तद्धेतुकोत्तरकाभावः, केवलयोगोपादीयमानस्य च बन्धस्य शैलेशीकरणे योगनिरोधादेव निरोधे आत्मनः स्वरूपावस्थानलक्षणो मोक्षः सिद्धयतीति सिद्धं भेदज्ञानाभ्यासस्य मोक्षं प्रति वीजत्वम् । नूनं निश्चितम् । येऽपि प्राणिनो अध्वस्तवन्धा मोक्षोपायालाभाद् अनपनीतकर्मरजःसंश्लेषा भ्रमन्ति अविद्याकन्दलीकन्दायमानमोहानुवृत्तितन्त्रतया गृहीतनानानारक-तिर्यगादिपर्यायाः संसरन्ति तत्र भ्रमणे अभेदज्ञानमेव वीजमिति विद्मः । अयमर्थः --- परात्मनोविवेकाभावे परम् आत्मत्वेनाध्यास्य रज्यन्तो द्विपन्तो मुह्यन्तश्चात्यन्तप्रत्यस्तमितविविक्तात्मख्यातित्वाद् आत्मानं कर्तारं मन्यमाना नानारम्भान् समनुष्टाय तद्विपाकवेदनाविधुरीकृता अनन्तकालं संसृतिनिवासं नोज्झन्तीति सोऽयमभेदज्ञानानुभावः ॥९॥ पुनरपि भेदज्ञानाय 'लाधतेभेदज्ञानाभ्यासतः शुद्धचेता
नेता नाऽयं नव्यकर्मावलीनाम् । लीनां स्वस्मिन् नामयंस्तां नितान्तं
तान्तं स्वीयं रूपमुज्जीवयेत ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org