________________
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा प्रयोजनवान् । तदन्वय-व्यतिरेकसाध्यत्वात् तत्त्वज्ञानस्येति, अयं हि निखिलकर्मविकारानपोह्य केवलज्ञातृत्वमात्रविशिष्टं शुद्धं निरूपं सिद्धसदृशं पर्यन्तपाकोत्तीर्णजात्यजाम्बूनदस्थानीयमात्मानमनुभावयतीति सिद्धं भूतार्थत्वं निश्चयस्य । तदितरो व्यवहारः अभूतार्थम् असत्यार्थम् आवेदयन् नितरां संत्याज्यः। अयमर्थः–व्यवहारो हि पर्यायाश्रितत्वात् परभावं परस्य विदधन्नीलः स्फटिक इतिवदौपाधिकभावं जीवे समारोप्य योगस्थानोपयोगस्थान-बन्धस्थान-गुणस्थान-संक्लेशस्थान-लेश्यास्थान-मार्गणास्थान-जीवस्थानादिभावभावितवैश्वरूप्यं जीवद्रव्य व्यवस्थापयति, तादृशच कथं शुद्धबुद्धटङ्कोत्कीर्णस्वभावस्यात्मनः स्वरूपावगतौ बीजं स्यात् ? ' अनादिप्रसिद्धाशुद्धतापुरस्कारेणैव वस्तुस्वरूपावेदनात् । अतो भेदज्ञानरहस्यासमर्पकत्वेन तदन[ ङ् गतेत्येतदेवाह– 'यतः स्व-परयोर्मेंदे स वीजं न हि' इति । स्वश्चात्मा, परश्चौपाधिको योगस्थानादिरूपो भावस्तयोर्भदे विवेके स व्यवहारो न हि योगस्थानादिकमरितमात्मानं प्रतिष्टापयन्नुपदर्शितोपाधिकभावविशिष्टं तं चानुभावयन् विज्ञानस्वभावातिरिक्तस्वभावबोधकत्वेनाशुद्रव्याऽऽदेशितया नात्मनो याथात्म्यावेदकः । ननु तर्हि सर्वश्रुतस्यानुपादेयता भविष्यतीति चेन्न तीर्थप्रवृत्त्यन्यथानुपपत्येतस्यावश्यं कक्षीकरणीयत्वादिति स्वयमेवाने भावयिष्यामः । एवं द्वयोः स्वरूपाभिधानपुरस्सरं व्यवहारस्य हेयतामभिधाय किञ्चिद् विशेषाभिधानपूर्वकं निश्चयस्योपादेयत्वमाह - "भूतार्थस्तु" इति । तु विशेषद्योतनार्थः । यस्माद्धेतो तार्थों विशुद्धवस्तुकलनाऽभिज्ञः सकलोपाधिविविक्तशुद्धद्रव्याऽऽदेशितया शुद्धं वस्तु परिचाययितुं प्रवीणः । ततो ननु निश्चित भूतार्थ संश्रितः सम्यग्दृगात्मा विशदधीः भवेत् । यथा यथा निश्चयनयं भाति तथा तथा विषयेष्वरज्यमानः शुद्धात्मानुभवाभिमुखी भवति । यथा यथा शुद्धात्मानुभवाभिमुखी भवति तथा तथा वैशद्यमस्य चिति समुल्लसतीति भावः ॥५॥
पुनरपि व्यवहारस्वरूपमेव वृत्तान्तरेण स्पष्टयतिव्यवहरणनयोऽयं पुंस्वरूपं विकारि
भणति च नवतत्त्वैर्मुद्रितं क्षुद्ररूपम् । अबुधजनविवोधार्थ किलास्योपदेशो
जिनसमयविमूढः केवलं यः श्रितोऽमुम् ॥६॥ १ जाम्बूनदं सुवर्णम् । २ क्रियाविशेषणम्। ३ 'चित्'पदस्य सप्तम्यन्तम् । चिति-चैतन्ये ४ टीकारहितमूलद्वात्रिंशिका-प्रतौ तु क्वचित् निम्नलिखिते अन्त्ये द्वे पङ्क्ती यथा-'नियतनयविरुद्धं पुंस्वरूपं व्यवस्यन्नयमपि निखिलोऽन्त शिभिस्त्याज्य एव' ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org