________________
रामधम्मसवणविहाणपव्वं - १०२ / १२- ३७
हा देवि ! हा सरस्सइ !, परितायसु धम्मवच्छले ! लोगं । उदएण वुब्भमाणं, सबालवुड्ढाउलं दीणं ॥२५॥ दट्ठूण हीरमाणं, लोयं ताहे करेसु जणयसुया । सलिलं फुसइ पसन्नं, जायं वावीसमं सहसा ॥२६॥ ववगयसलिलभओ सो, सव्व जणो सुमाणस्त्रो तओ वाविं । पेच्छइ विमलजलोहं, णीलुप्पलभरियकूलयलं ॥२७॥
१.
सुरहिसयवत्तकेसर- निलीणगुञ्जन्तमहुयरुग्गीयं । चक्काय-हंस - सारस-नाणाविहसउणगणकलियं ॥ २८ ॥ मणिकञ्चणसोवाणं, तीए वावीए मज्झयारत्थं । पउमं सहस्सवत्तं, तस्स वि सीहासणं उवरिं ॥२९॥ दिव्वंसुयपरिछन्ने, तत्थ उ सीहासणे सुहनिविट्ठा | रेहइ जणयनिवसुया, पउमद्दहवासिणि व्व सिरी ॥३०॥ देवेह तक्खणं चिय, विज्जिज्जइ चामरेहिं दिव्वेहिं । गयणाउ कुसुमवुट्ठी, मुक्का य सुरेहिं तुट्ठेहिं ॥३१॥ सीयाए सीलनिहसं, पसंसमाणा सुरा नहयलत्था । नच्चन्ति य गायन्ति य, साहुक्कारं विमुञ्चन्ता ॥३२॥ गणे समहयाई, तूराइं सुरगणेहिं विविहारं । सद्देण सयललोयं, नज्जइ आवूरयन्ताई ॥३३॥ विज्जाहरा य मणुया, नच्चन्ता उल्लवन्ति परितुट्ठा । सिरिजणयरायधूया, सुद्धा दित्ताणले सीया ॥३४॥ एयन्तरे कुमारा, लवं-कुसा नेहनिब्भराऽऽगन्तुं । पणमन्ति निययजणणि, ते वि सिरे तीए अग्घाया ॥३५॥ रामो वि पेच्छिऊणं, कमलसिरिं चेव अत्तणो महिलं । जंपइ समीवसंथो, मज्झ पिए ! सुणसु वयणमिणं ॥ ३६ ॥ एयारिसं अकज्जं, न पुणो काहामि तुज्झ ससिवयणे ! । सुन्दरि ! पसन्नहियया, होहि महं खमसु दुच्चरियं ॥३७॥
हा देवि ! हा सरस्वति ! परित्रायस्व धर्मवत्सले ! लोकम् । उदकेन ब्रूड्यमानं सबालवृद्धाकूलं दीनम् ॥२५॥ दृष्ट्वा ह्रियमानं लोकं तदा कराभ्यां जनकसुता । सलिलं स्पृशति प्रसन्नं जातं वापीसमं सहसा ॥२६॥ व्यपगतसलिलभयः स सर्वो जनः सुमन स्ततो वापिम् । पश्यति विमलजलौघां नीलोत्पलभृतकुलतलाम् ॥२७॥ सुरभिशतपत्रकेसरनिलीनगुञ्जन्मधुकरोद्गीताम् । चक्रवाकहंससारसनानाविधशकुनगणकलिताम् ॥२८॥ मणिकञ्चनसोपानां तस्या वाप्या मध्यस्थम् । पद्मं सहस्रपत्रं तस्यापि सिंहासनमुपरि ॥ २९ ॥ दिव्याशुंकपरिछन्ने तत्र तु सिंहासने सुखनिविष्य । शोभते जनकनृपसुता पद्मद्रहवासिनीव श्रीः ॥३०॥ देवैस्तत्क्षणमेव वीज्यते चामरै दिव्यैः । गगनात्कुसुमवृष्टि र्मुक्ताश्च सुरैस्तुष्टैः ॥३१॥
सीतायाः शीलनिकसं प्रशंसमानाः सुरा नभस्तलस्थाः । नृत्यन्ति च गायन्ति च साधुकारं विमुञ्चन्तः ||३२|| गगने समाहतानि तूर्याणि सुरगणै विविधानि । शब्देन सकललोकं ज्ञायत आपूरयन्तानि ॥३३॥ विद्याधराश्च मनुष्या नृत्यन्त उल्लपन्ति परितुष्टाः । श्रीजनकराजदुहिता शुद्धा दीप्तानले सीता ||३४|| एतदन्तरे कुमारा लवणाङ्कुशौ स्नेहनिर्भरावागत्य । प्रणमतो निजजननीं तावपि शिरसि तयाऽऽघ्रातौ ॥३५॥ रामोऽपि दृष्ट्वा कमलश्रीमेवात्मनो समहिलाम् । जल्पति समीपस्थो मम प्रिये ! श्रुणु वचनमिदम् ||३६|| एतादृशमकार्यं न पुनः करिष्यामि तव शशिवदने ! । सुन्दरि ! प्रसन्नहृदया भव मम क्षमस्व दुश्चरितम् ||३७|| १. ०हं कमलुप्पल० मु० । २. देवीहिं- मु० ।
Jain Education International
For Personal & Private Use Only
६३३
www.jainelibrary.org