________________
९२. सीयाजणपूयाडोहलपव्वं
अह अन्नया कयाई, भवणत्था महरिहम्मि सयणिज्जे । सीया निसावसाणे, पेच्छइ सुविणं जणयधूया ॥१॥ सा उग्गयंमि सूरे, सव्वालंकारभूसिया गन्तुं । अत्थाणिमण्डवत्थं, पुच्छइ दइयं कयपणामा ॥२॥ किल सामि ! अज्ज सुविणे, दो सरहा तिव्वकेसरारुणिया । ते मे मुहं पविट्ठा, नवरं पडिया विमाणाओ ॥३॥ तो भणइ पउमणाहो, सरहाणं दरिसणे तुमं भद्दे ! । होहिन्ति दोन्नि पुत्ता, अइरेणं सुन्दरायारा ॥४॥ जं पुप्फविमाणओ, पडिया न य सुन्दरं इमं सुविणं । सव्वे गहाऽणुकूला, होन्तु सया तुज्झ पसयच्छि ! ॥५॥ ताव य वसन्तमासो, संपत्तो पायवे पसाहेन्तो । पल्लव-पवाल-किसलय-पुष्फ-फलाइं च जणयन्तो ॥६॥ अंकोल्लतिक्खणक्खो, मल्लियणयणो असोयदलजीहो । कुरबयकरालदसणो, सहयारसुकेसरारुणिओ ॥७॥ कुसुमरयपिञ्जरङ्गो, अइमुत्तलयासमूसियकरग्गो । पत्तो वसन्तसीहो, गयवइयाणं भयं देन्तो ॥८॥ कोइलमुहलुग्गीयं, महुयरगुमुगुमुगुमेन्तझंकारं । कुसुमरएण समत्थं, पिञ्जरयन्तो दिसायक्कं ॥९॥ नाणाविहतरुछन्नं, वरकुसुमसमच्चियं फलसमिद्धं । रेहइ महिन्दउदयं, उज्जाणं नन्दणसरिच्छं ॥१०॥ एयारिसंमि काले, पढमेल्लुगगब्भसंभवे सीया। जाया मन्दुच्छाहा, तणुयसरीरा य अइरेगं ॥११॥
|| ९२. सीताजिनपूजादोहदपर्वम् )
अथान्यदा कदाचिद्भवनस्था महार्हे शयनीये । सीता निशावसाने पश्यति स्वप्नं जनकदुहिता ॥१॥ सोद्गते सूर्ये सर्वालङ्कारभूषिता गत्वा । आस्थानिकामण्डपस्थं पृच्छति दयितं कृतप्रणामा ॥२॥ किल स्वामिन् ! अद्य स्वप्ने द्वौ शरभौ तीव्रकेशरारुणितौ । तौ मम मुखं प्रविष्टौ नवरं पतितौ विमानात् ॥३॥ तदा भणति पद्मनाभः शरभयोर्दर्शने त्वां भद्रे ! । भविष्यतो द्वौ पुत्रावचिरेण सुन्दराकारौ ॥४॥ यत्पुष्पविमानात्पतितौ न च सुन्दरमयं स्वप्नः । सर्वे ग्रहा अनुकूला भवन्तु सदा तव प्रसन्नाक्षि ! ॥५॥ तावच्च वसन्तमासः संप्राप्तः पादपान्प्रसादयन् । पल्लव-प्रवाल-किशलय-पुष्प-फलानि च जनयन् ॥६॥ अंकोलतीक्ष्णनखो मल्लिकनयनोऽशोकदलजीह्वः । कुरबककरालदशनः सहकारसुकेशरारुणितः ।।७।। कुसुमरज:पिञ्जराङ्गोऽतिमुक्तलतासमुच्छ्रितकराग्रः । प्राप्तो वसन्तसिंहो गतपतिकानां भयं ददन् ।।८।। कोकिलमुखरुद्गीतं मधुकरगुमगुमगुमज्झंकारम् । कुसुमरजसा समस्तं पिञ्जरयन् दिक्चक्रम् ॥९॥ नानाविधतरुच्छन्नं वरकुसुमसमचितं फलसमृद्धम् । राजते महेन्द्रोदयमुद्यानं नन्दनसदृशम् ॥१०॥ एतादृशे काले प्रथमगर्भसंभवे सीता । जाता मन्दोत्साहा तनुशरीरा चातिरेकम् ॥११॥
१. अत्थाणम०-प्रत्य० । २. सिंहपक्षे - गजपतिकानाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org