________________
७१६
पउमचरियं एसो ते परिकहिओ, दसाणणो सह तुमे सुराहिवई ! । एत्तो सुणाहि पुणरवि, लक्खणपगयं भणिज्जन्तं ॥७७॥ जो सोऽयं भोयरहो, चक्कहरसुओ तवप्पभावेणं । भणिऊण उत्तमभवे, केई दढधम्मसंजुत्तो ॥७८॥ पुक्खरदीवविदेहे, पउमपुरे लक्खणो उ चक्कहरो । होहिइ तित्थयरो पुण, तत्थेव भवे तियसणाहो ॥७९॥ सत्तसु वरिसेसु जिणो', काऊण असेसदोससंघारं । सुर-असुरनमियचलणो, पाविहिइ अणुत्तरं ठाणं ॥४०॥ एवं केवलिकहियं, भविस्सभवसंकहं सुणेऊणं । जाओ संसयरहिओ, पडिइन्दो, भावणाजुत्तो ॥८१॥ नमिऊण रामदेवं, ताहें सव्वायरेण पुणरुत्तं । अभिवन्दइ सुरपवरो, जिणवरभवणाई विविहाई ॥८२॥ नन्दीसराइयाई, अभिवन्देऊण चेइयहराइं । कुरुवं चिय संपत्तो, पेच्छड़ भामण्डलं देवो ॥८३॥ संभासिऊण पयओ, संबोहिय भायरं सिणेहेणं । विबुहाहिवो खणेणं, संपत्तो अच्चुयं कप्पं ॥८४॥ तत्थारणच्चुए सो, अमरवहूसयसहस्सपरिकिण्णो ।अणुहवइ उत्तमसुहं, सीइन्दो सुमहयं कालं ॥८५॥ पन्नरस सहस्साइं, वरिसाण तयाऽऽसि आउयं हलिणो । सोलस चावाणि पुणो, उच्चत्तं चेव नायव्वं ॥८६॥ पेच्छह बलेण महया, जिणिन्दवरसासणे धिई काउं । जम्म-जरा-मरणरिवू पराजिया धीरसत्तेणं ॥८७॥ निस्सेसदोसरहिओ, नाणाअइसयविभूइसंजुत्तो । केवलकिरणुज्जलिओ, विभाइ सरए व्व दिवसयरो ॥४८॥ आराहिऊण धीरो, जिणसमयं पञ्चवीस वरिसाइं । आउक्खयम्मि पत्तो, पउमो सिवसासयं ठाणं ॥८९॥
एष ते परिकथितो दशाननः सह त्वया सुराधिपते ! । इतः श्रुणु पुनरपि लक्ष्मणप्रगतं भणन्तम् ॥७७॥ यः सोऽयं भोगरथश्चक्रधरसुतस्तपः प्रभावेण । भ्रान्त्वोत्तमभवान्काञ्चिददृढधर्मसंयुक्तः ॥७८॥ पुष्करद्वीपविदेहे पद्मपुरे लक्ष्मणस्तु चक्रधरः । भविष्यति तीर्थकरः पुनस्तत्रैव भवे त्रिदशनाथः ॥७९॥ सप्तभिर्वर्षे जिनः कृत्वाऽशेषदोषसंहारम् । सुराऽसुरनतचरणः प्राप्स्यत्यनुत्तरं स्थानम् ।।८०॥ एवं केवलिकथितां भविष्यद्भवसंकथां श्रुत्वा । जातः संशयरहितः प्रतीन्द्रो भावनायुक्तः ॥८१॥ नत्वा रामदेवं तदा सर्वादरेण पुनरुक्तम् । अभिवन्दति सुरप्रवरो जिनवरभवनानि विविधानि ॥८२॥ नन्दीश्वरादिकान्यभिवन्द्य चैत्यगृहाणि । कुरुवमेव संप्राप्तः पश्यति भामण्डलं देवः ॥८३॥ संभाष्य प्रयत: संबोध्य भ्रातरं स्नेहेन । विबुधाधिपः क्षणेन संप्राप्तोऽच्युतं कल्पम् ॥८४॥ तत्राऽऽरणाच्युते सोऽमरवधुशतसहस्रपरिकीर्णः । अनुभवत्युत्तमसुखं सीतेन्द्रः सुमहत्कालम् ॥८५॥ पञ्चदशसहस्राणि वर्षाणां तदाऽऽसीदायु हलिनः । षोडशचापानि पुनरुच्चत्तमेव ज्ञातव्यम् ॥८६॥ पश्यत बलेन महता जिनेन्द्रवरशासने धृतिं कृत्वा । जन्म-जरा-मरणशत्रवः पराजिता धीरसत्त्वेन ॥८७॥ निःशेषदोषरहितो नानाऽतिशयविभूतिसंयुक्तः । केवलकिरणोज्वलितो विभाति शरदीव दिवसकरः ॥८८॥ आराध्य धीरो जिनसमयं पञ्चविंशति वर्षाणि । आयुः क्षये प्राप्तः पद्मः शिवशाश्वतं स्थानम् ॥८९।।
१. सो पुण भो०-प्रत्य० । २. ०रवतीवि०-प्रत्य० । ३. ०णो खविऊण असेसकम्मसंघायं सु०-प्रत्य० । ४. एवं केवलिविहियं-मु० । ५. सत्तरसमु०। ६. वीरो-प्रत्य०।
Jain Education Intemalional
For Personal & Private Use Only
www.janeibrary.org