________________
पउमणिव्वाणगमणपव्वं -११८/२५-५०
७१३ बहुतूरनिणाएणं, अच्छर संगिज्जमाणमाहप्पो । पउमस्स गओ सरणं, सीइन्दो सयलपरिवारो ॥३८॥ सव्वायरेण देवो, थोऊण पुणो पुणो पउमणाहं । तत्थेव सन्निविट्ठो, महिवीढे परियणसमग्गो ॥३९॥ नमिऊण पुच्छइ सुरो, भयवं ! जे एत्थ दसरहाईया । लवणं-ऽकुसा य भविया, साहसु कवणं गई पत्ता ? ॥४०॥ जं एव पुच्छिओ सो, बलदेवो भणइ आणए कप्पे । वट्टइ अणरण्णसुओ, देवो विमलम्बराभरणो ॥४१॥ ते दो वि जणय-कणया, केगइ तह सुप्पहा य सोमित्ती । अवराइयाए समयं, इमाइं सग्गोववन्नाई ॥४२॥ णाण-तव-संजमदढा, विसुद्धसीला लवं-ऽकुसा धीरा । गच्छीहन्ति गुणधरा, अव्वाबाहं सिवं ठाणं ॥४३॥ एव भणिओ सुरिन्दो, अच्चन्तं हरिसिओ पुणो नमिउं। पुच्छइ कहेहि भयवं!, संपइ भामण्डलस्स गई ॥४४॥ तो भणइ सीरधारी, सुरवर ! निसुणेहि ताव संबन्धं । चरिएण तुज्झ भाया, जेणं चिय पावियं ठाणं ॥४५॥ अह कोसलापुरीए, धणवन्तो अत्थि वज्जको नामं । पुत्ता असयो-तिलया, तस्स पिया मयरिया भज्जा ॥४६॥ निव्वासियं सुणेउं, सीयं सो दुक्खिओ तओ जाओ।चिन्तेइ सा अरण्णे, कह कुणइ धिई महाघोरे? ॥४७॥ अहियं किवालुओ सो, संविग्गो जुइमुणिस्स सीसत्तं । पडिवज्जिऊण जाओ समणो परिवज्जियारम्भो ॥४८॥ अह अन्नया कयाई, असोग-तिलया गया जुइमुणिन्दं । पणमन्ति आयरेणं, पियरं च पुणो पुणो तुट्ठा ॥४९॥ सोऊण धर्मरयणं, सहसा ते तिव्वजायसंवेगा। दोण्णि वि जुइस्स पासे, असोय-तिलया विणिक्खन्ता ॥५०॥
बहुतूर्यनिनादेनाप्सर:संगीयमानमाहात्म्यः । पद्मस्य गतः शरणं सीतेन्द्रः सकलपरिवारः ॥३८॥ सर्वादरेण देवः स्तुत्वा पुनः पुनः पद्मनाभम् । तत्रैव सन्निविष्टो महीपृष्टे परिजनसमग्रः ॥३९॥ नत्वा पृच्छति सुरो भगवन् ! ये ऽत्र दशरथादयः । लवणाङ्कुशाश्च भविकाः कथय कां गतिं प्राप्ताः? ॥४०॥ यदेवं पृष्टः स बलदेवो भणत्यानते कल्पे । वर्तते ऽनरण्यसुतो देवो विमलाम्बराभरणः ॥४१॥ तौ द्वावपि जनक-कनकौ कैकयी तथा सुप्रभा च सोमित्रिः । अपराजितया समकमिमे स्वर्गोत्पन्नाः ॥४२॥ ज्ञानतप:संयमदृढौ विशुद्धशीलौ लवाङ्कुशौ धीरौ । गमिष्यतो गुणधरावव्याबाधं शिवं स्थानम् ॥४३॥ एवंभणितः सुरेन्द्रोऽत्यन्तं हर्षितः पुनर्नत्वा । पृच्छति कथय भगवन् ! संप्रति भामण्डलस्य गतिम् ॥४४॥ तदा भणति सीरधारी सुरवर ! निश्रुणु तावत्सम्बन्धम् । चरितेन तव भ्रात्ता येनैव प्राप्त स्थानम् ॥४५॥ अथ कोशलापूर्यां धनवानस्ति वज्रको नाम । पुत्रावशोक-तिलकौ तस्य प्रिया मकरिका भार्या ॥४६।। निर्वासितां श्रुत्वा सीतां स दुःखितस्ततो जातः । चिन्तयति साऽरण्ये कथं करोति धृति महाघोरे ? ॥४७॥ अधिकं कृपालुः स संविग्नो द्युतिमुनेः शिष्यत्वम् । प्रतिपद्य जातः श्रमणः परिवर्जितारम्भः ॥४८॥ अथान्यदा कदाचिदशोक-तिलकौ गतौ द्युतिमुनीन्द्रम् । प्रणमत आदरेण पितरं च पुनः पुनस्तुष्टौ ॥४९।। श्रुत्वा धर्मरत्नं सहसा तौ तीव्रजातसंवेगौ । द्वावपि धुतेः पार्श्वे ऽशोक-तिलकौ विनिष्क्रान्तौ ॥५०॥
१. ०रसुरगि०-मु० । २. गयं प०-प्रत्य० । ३. ०यतणया-मु० । ४. ०सा वीरा । गच्छीहिंति-प्रत्य० । ५. घणमंतो अत्थि वज्जगो ना०-प्रत्य० । ६. ०म्मसवणं-प्रत्य० । ७. दो वि जुइस्स य पासे-प्रत्यः ।
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org