________________
६७२
पउमचरियं सुणिऊण तीए वयणं, रुट्ठो महुपस्थिवो भणइ एवं । जो निग्गहस्स भागी, सो कह पूइज्जए दुट्ठो ? ॥१०४॥ जइ निग्गहं नराहिव , कुणसि तुमं पारदारियनरस्स । घोरं तु महादण्डं , किं न हुतं अत्तणो कुणसि ? ॥१०५॥ पढमपरदारसेवी, सामि ! तुम सयलवसुमईनाहो । पच्छा हवइ य लोओ, जह राया तह पया सव्वा ॥१०६॥ सयमेव नरवरिन्दो, जत्थ उ परदारिओ हवइ दुट्ठो । तत्थ उकिं ववहारो, कीरइ लोगस्स मज्झम्मि ? ॥१०७॥ सुणिऊण वयणमेयं, पडिबुद्धो तक्खणं महू राया। निन्दइ पुणो पुणो च्चिय, अप्पाणं जायसंवेगो ॥१०८॥ कुलवद्धणस्स रज्जं, दाउं सह केढवेण महुराया। निक्खमइ दढधिईओ, पासे मुणिसीहसेणस्स ॥१०९॥ चन्दाभा वि महाकुलसंभूया उज्झिऊण रायसिरिं। तस्सेव पायमूले, मुणिस्स दिक्खं चिय पवन्ना ॥११०॥ घोरं काऊण तवं, कालगया आरणच्चुए कप्पे । महु-केढवाऽणुजाया, दोण्णि वि ते इन्दपडिइन्दा ॥१११॥ समणी वि य चन्दाभा, संजम-तव-नियम-जोगजुत्तमणा । कालगया उववन्ना, देवी दिव्वेण रूवेणं ॥११२॥ बावीससागराइं, जह तेहि सुहं मणोहरं भुत्तं । सेणिय ! अच्चुयकप्पे, सीया इन्दो वि य तहेव ॥११३॥
इमं महू-केढवरायचेट्ठियं, समासओ तुज्झ मए निवेइयं । नरिन्द ! धीरटुकुमारसंगयं, सुणेहि एत्तो विमलाणुकित्तणं ॥११४॥ ॥ इइ पउमचरिए महु-केढवउवक्खाणं नाम पञ्चुत्तरसयं पव्वं समत्तं ॥
श्रुत्वा तस्या वचनं रुष्टो मधुपार्थिवो भणत्येवम् । यो निग्रहस्य भागी स कथं पूज्यते दुष्ट: ? ॥१०४॥ यदि निग्रहं नराधिप ! करोषि त्वं पारदारिकनरस्य । घोरं तु महादण्डं किन्न खलु तदात्मनः कुरुषे ? ॥१०५।। प्रथमपरदारसेवी स्वामिंस्त्वं सकलवसुमतिनाथः । पश्चाद्भवति च लोको यथा राजा तथा प्रजाः सर्वाः ॥१०६॥ स्वयमेव नरवरेन्द्रो यत्र तु परदारिको भवति दुष्टः । तत्र तु किं व्यवहारः क्रियते लोकस्य मध्ये ? ॥१०७।। श्रुत्वा वचनमेतत्प्रतिबुद्धस्तत्क्षणं मधुराजा । निन्दति पुनः पुनरेवात्मानं जातसंवेगः ॥१०८॥ कुलवधनाय राज्यं दत्वा सह कैटभेन मधुराजा । निष्कामति दृढधृतिकः पार्वे मुनिसिंहसेनस्य ॥१०९।। चन्द्राभाऽपि महाकुलसंभूतोज्झित्वा राज्यश्रीम् । तस्यैव पादमूले मुनेदिक्षामेव प्रपन्ना ॥११०॥ घोरं कृत्वा तपः कालगतौ आरणाच्युते कल्पे । मधुकैटभावनुजातौ द्वावपि ताविन्द्रप्रतीन्द्रौ ॥१११॥ श्रमण्यपि चन्द्राभा संयम-तपो-नियमयोगयुक्तमना । कालगतोत्पन्ना देवी दिव्येन रुपेण ॥११२॥ द्वाविंशतिसागराणि यथा ताभ्यां सुखं मनोहरं भुक्तम् । श्रेणिक ! अच्युतकल्पे सीतेन्द्रोऽपि च तथैव ॥११३।। इदं मधु-कैटभराजचेष्टितं समासतस्तव मया निवेदितम् । नरेन्द्र ! धीराष्टकुमारसंगतं श्रुण्वितो विमलानुकीर्तनम् ॥११४॥
॥इति पद्मचरिते मधु-कैटभोपाख्यानं नाम पञ्चोत्तरशतं पर्वं समाप्तम् ॥
१. ०ण्डं तो किं ण हु अ०-प्रत्य० । २. अत्ताणं-प्रत्य० । ३. ०न्दो च्चिय-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org