________________
प्रतिष्ठा - लेख - संग्रहः द्वितीयो विभागः
सारहारसंगत श्रीशत्रुञ्जयमहातीर्थकरमोचन वरविचक्षणसकलस्वदेशपरदेशशुल्क -जीजियाकरमोचन विधिसमुत्पादितजगज्जीवसमाधान परबलदलन प्रत्यलनिरशुलनिर्मलप्रबलस्वीकृत - सकलभूमंडललक्ष्मीलीलाविलाससावधान । करुणारसनिधान। प्रभूतयवनप्रधानसंप्रति-दिल्लीपतिसुरत्राण श्रीअकब्बरसाहिविजयराज्ये ॥ श्रीबृहत्खरतरगच्छाधिप श्रीजिनमाणिक्यसूरिपट्टप्रभाकर स्वधर्मदेशनाद्यनेकप्रगुणगणरंजित श्रीमदकब्बरसाहिप्रदत्त-युगप्रधानपद ।
श्रीस्तम्भतीर्थसमीपांभोधिजलचरजीवामारिप्रसृतामरयशोनाद सदाषाढीयाष्टाह्निकासकलजीवाभयदानदायक गणनायक युगप्रधानगुरु श्रीजिनचन्द्रसूरिभिः मन्त्रिवरकर्मचन्द्रकृतनन्दीमहोत्सवैर्लाभपुरे
साहिशुभादरेण शाहि सनाखत स्वहस्तसंस्थापितश्रीजिनसिंहसूरि-प्रमुखोपाध्याय - वाचनाचार्य - साधुसंघयुतैः ॥ अहम्मदावादवास्तव्य प्राग्वाटज्ञातीय सा० साइया पुत्र सा० जोगी भार्या जसमादेवीकुक्षिसुक्तिमौक्तिकेन । श्रीखरतरगच्छसमाचारीवासितान्त:करणेन स्वदेयसाधर्मिकप्रतिगृहरजताद्धलं भनिकाविधायकेन । स्वगच्छपरगच्छीय संघसपरिकरनिजगुरुराजादिसार्धेन विहितश्रीशत्रुञ्जायमहातीर्थयात्रासुकृतेन । कृतानेकजैनप्रतिमाप्रासादप्रतिष्ठादिधर्ममहोत्सवेन । साधर्मिकवात्सल्यादिधर्मकरणरसिकेन संघवी सोमजीकेन भ्रातृ सिवा युतेन । पुत्र सं० रतनजी सं० रूपजी सं० खीमजी। पौत्र सं० सुंदरदास प्रमुखपुत्रपौत्रादिपरिवारशोभितेन महाद्रव्य-व्ययोत्सवपूर्वकनिष्पादितसमहामहं प्रतिष्ठापितं च सपञ्चतीर्थीपरिकरं श्रीऋषभबिंबं॥ पूज्यमानं च चिरं नंद्यात् यावच्चन्द्रदिवाकरौ गुरुगोत्रदेवीप्रसादात् शुभम् श्रीसमयराजोपाध्यायैः प्रशस्तिरियं कारिताः॥
४७
सिंहासन के नीचे
॥ ६० ॥ संवत् १६५३ अलाइ ४२ वर्षे पातिसाहि श्री अकबरविजईराज्ये महासुदि १० सोमे प्राग्वाटज्ञातीय श्री अहम्मदावादनगरवास्तव्य सा० साइया भार्या नाकू पुत्र सं० जोगी भार्या जसमादे कुक्षे संघपति सोमजीकेन भ्रातृ शिवा पुत्ररत्न सं० रतनजी सं० रूपजी सं० खीमजी पौत्र सुंदरदास प्रमुखपरिवारसहितेन श्री आदिनाथबिंबं सपरिकरं कारितं प्रतिष्ठितं च ॥ दिल्लीपति श्री अकब्बरपातिसाहिप्रदत्तयुगंप्रधानविरुदधारक श्रीबृहत्खरतरगच्छाधिप श्रीजिनमाणिक्यसूरिपट्टा -लंकारयुगप्रधान श्रीजिनचन्द्रसूरिभिः आचार्य श्रीजिनसिंहसूरि श्रीरत्ननिधानो - पाध्यायप्रमुखपरिवारसहितं ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org