________________
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
११७
(६०१) शिलापट्ट-प्रशस्तिः ॥ श्रीजैनेन्द्रदेवो विजयते॥ ॥ स्वस्ति श्रीऋषभादिवर्धमानान्ताः जिनाः शान्ताः शान्तिकराः भवन्तु, श्रीऋद्धिवृद्धिमङ्गलाभ्युदयश्च। श्रीवृन्दावत्यां नगर्यां श्रीदीवाण राजराजेश्वर महाराजाधिराज रावराजाजी श्रीरामसिंहजी महाराजकुमार श्रीभीमसिंहजी विजयराज्ये श्रीमन्नृपतिविक्रमादित्य समयात् संवत्सरे खंनयनांकेन्दुमिते प्रवर्तमाने शाके ज्ञानसिद्धिमुनिचन्द्रप्रमिते मासोत्तममासे माघमासे शुभे शुक्लपक्षे गुणेन्दुमितायां कर्मवाट्यां शनिवारे शुभमुहूर्ते श्रीऋषभाननजिनेन्द्रप्रासाद, श्रीबृहखरतरभट्टारकगच्छे जंगमयुगप्रधान भट्टारक श्रीजिनहर्षसूरिजित्सूरीश्वराणां पट्टे सहस्रकिरणावतार भट्टारक श्रीजिनमहेन्द्रसूरिगुरुराजानां पट्टालङ्कार जंगम युगप्रधान वर्तमानभट्टारक श्रीजिनमुक्तिसूरिवरैः प्रतिष्ठितं कारापितं, ओसवालज्ञातीय बहुफणागोत्रे संघवी श्रीबाहदरमल्लजी तत्पुत्र दानमल्ल हमीरमल्ल राजमल्लेन श्रेयोर्थं स्वद्रव्येण श्रीजिनप्रासादं कारापितं श्रीगुरु उपदेशात्॥ श्रीः॥
(६०२) चतुरकुंवर पादुका ॥ संव्वत् १९२० शाके १७८५ वर्षे माघ शुक्ल १३ कर्मवाट्यां प्रतिष्ठितं श्रीजिनमुक्तिसूरिभिः सुश्राविका बाई चतुरकुंवरपादुकाः कारापितं। बा। सं। श्रीदानमल्ल हम्मीरमल्लेन श्रीवृन्दावत्यां नगर्यां स्वश्रेयोर्थम्।
(६०३) पार्श्वनाथ: ॥ संव्वत् १९२० वर्षे माघ मासे शुभे शुक्लपक्षे त्रयोदश्यां तिथौ श्रीपार्श्वजिनबिंबं प्रतिष्ठितं भ। श्रीजिनमुक्तिसूरिभिः॥ का। समस्तश्रीसंघेन श्रीखरतरभट्टारक।
__ (६०४) आदिनाथः ॥ संव्वत् १९२० शाके १७८५ माघ मासे शुक्लपक्षे १३ श्रीऋषभजिनबिंबं प्रतिष्ठितं बृहद्खरतरगच्छाधीश श्रीजिनमुक्तिसूरिभिः कारितं पीस्सांगणस्य समस्तश्रीसंघेन श्रीबूंदीनगरे रावराजा महाराजाधिराज श्रीरामसिंहजी विजयराज्ये॥
६०१. बूंदी सेठजी का मन्दिर ६०२. बूंदी सेठजी का मन्दिर ६०३. बूंदी सेठजी का मन्दिर ६०४. बूंदी सेठजी का मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org