SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ वस्तुपालतीर्थयात्रावर्णनम् पुण्योल्लासविलासलालसधिया येनात्र शत्रुञ्जये श्रीनन्दीश्वरतीर्थमर्पितजगत्पावित्र्यमासूत्रितम् । एतच्चानुपमासरः परिसरोद्देशे शिलासञ्चय व्यानडोडतबन्धमुडरपयःकल्लोललुप्तक्रमम् ॥ ४३ ॥ स्फुटस्फटिकदर्पणप्रतिमतामिदं गाहते मुधाकृतसुधाकरच्छविपवित्रनीरं सरः। विकस्वरसरोरुहप्रकरलक्ष्यतो लक्ष्यते यत्र सरिदङ्गनावदनबिम्बताडम्बरः॥४४॥ शत्रुञ्जये यः सरसीं निवेश्य श्रीरैवताद्रौ च जडाधराणाम् । ग्रामस्य दानेन करं निवार्य सङ्घस्य सन्तापमपाचकार ॥ ४५ ॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः सिन्धूनामियदङ्गलं वियदियत्ताला च कालस्थितिः। इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुपालस्य तां धर्मस्थानपरम्परां गणयितुं शङ्के न सोऽपि क्षमः ॥ ४६॥ एतत्सुवर्णरचितं विश्वालङ्करणमनणुगुणरत्नम् । सनाधीश्वरचरितं हतदुरितं कुरुत हृदि संतः ॥४७॥ श्रीनागेन्द्रमुनीन्द्रगच्छतरणिः श्रीमान्महेन्द्रप्रभु जज्ञे क्षान्तिसुधानिधानकलशः पुण्याब्धिचन्द्रोदयः । सम्मोहोपनिपातकातरतरे विश्वेऽत्र तीर्थेशितुः सिद्धान्तोऽप्यविभेद्यतर्कविषमं यं दुर्गमाशिश्रिये ॥ ४८ ॥ तत्सिंहासनपूर्वपर्वतशिरःप्रान्तोदयः कोऽप्यभू भास्वानस्तसमस्तदुस्तमतमाः श्रीशान्तिसूरिप्रभुः । प्रत्युज्जीवितदर्शनातिलसद्भव्यौघपद्माकरं तेजश्छन्नदिगम्बरं विजयते तद्यस्य लोकोत्तरम् ॥ ४९ ॥ आनन्दसूरिरिति तस्य बभूव शिष्यः पूर्वापरः शमधनोऽमरचन्द्रसरिः। धर्मद्विपस्य दशनाविव पापवृक्ष क्षोदक्षमौ जगति यौ विशदौ विभातः ॥५०॥ अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्रापुषोः किमनयोः स्तुमहे महिम्नः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003980
Book TitlePrachin Gurjar Kavyasangraha
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1920
Total Pages172
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy