________________
( १६ ) परात्माधिष्ठितं मूढः परत्वेनाध्यवस्यति ॥ १०॥
स्वदेह एवमध्यवसायं कुर्वाणो बहिरा - त्मा परदेहे कथं करोतीत्याह । स्वेति । स्वदेहसदृशं परदेहं दृष्ट्रा । कथंनृतं । परात्माघिष्ठितं कर्म्मवशात् स्वीकृतमचेतनं चेत. नमपि संगतं मूढः बहिरात्मा परत्वेनापरात्मत्वेनाध्यवस्यति ॥ १० ॥
स्वपराध्यवसायेन देहेष्वविदितात्मनाम् । वर्तते विभ्रमः पुंसां पुत्रनार्या दिगोचरः ॥ ११ ॥ एवंविधाध्यवसायात्किं करोतीत्याह । स्वपरेति । विभ्रमो विपर्यासः पुंसां वर्तते । किं विशिष्टानां । अविदितात्मना अपरि
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org