________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् दृष्टव्यः कोऽपिनानारी न च सराग दृष्टिना । ऊनोदरि तपः कार्य सर्वदा शीलधारिणा ॥१६६।। त्यागो देहविभूषायाः कार्यस्ततो नरेश्वर । भवद्भिः स्वयमेवस्व चित्त विचार्य पश्यताम् ॥२००।। पूर्वोक्तानां प्रतिज्ञाना मासां निर्वाहको मुनिः। ज्ञाता पायान पायः स्वाचार च्युतः कथंभवेत् ॥२०१॥ ये भ्रष्टास्तेयथावत्तत्प्रतिज्ञानामपालनात् । जिनमतेऽपि ते निंद्या इतर स्मिन्तु का कथा ॥२०२।। धिग् पात्राणि तेऽत्रस्यु जिनशासन खिसकाः । अवन्द्यास्तैः समं कोऽपि संसर्ग प्रकरोति नः ॥२०॥ सर्व साधु वतो श्रद्धां लात्वा तत्कष्ट पातनम् । नोचित मस्ति भूपानां नीतिविदां भवादृशाम् ।।२०४॥ साही जगाद मे राज्ये स्वेच्छया जैन साधवः । विचरन्तु सदा कस्य को न विघ्नं करिष्यति ॥२०॥ सूरिणावादि यद्यवं तर्हि शीघ्र हि साधवः ।. मुच्यन्तां पतिताः कारागृहे निरपराधिनः ॥२०६।। आयत्य प्रतिबन्धत्व साधविचरणाय च । सर्वत्र फुरमानानि प्रष्यंतां हे नरेश्वर ! ॥२०७|| साहिना वादि हे पूज्या एवमेव भविष्यति । , निश्चितं भवता स्थेयं दातव्यं दर्शनं पुनः ।।२०८।। वार्तालापं विधायैवं स्वस्थानं सूरयो गताः । सर्वत्र फुरमानानि प्रकाशितानि साहिना ।।२०६।।
[ ८१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org