________________
- युगप्रधान श्री जिनचन्द्रसूरि चरितम् सूरीन्द्रमानहान्यर्थमन्यदा साहि संसदि । वियत्युडापयामास ।स्वटोपी मन्त्रशक्तितः ॥७१॥ युग्मम।। गुरुणापि ततो मुक्तस्तत्पृष्टतो वृषध्वजः। नीचैरानीय तां तस्य स्थापयामास मस्तके ।।७२।। स निष्फलोद्यमः काजीममुचेर्षाभिमानको । अन्यदप्येकमाश्चयं तत्रैवाजनि तद्यथा ॥७३॥ तिथिरद्य किमस्तीति पृष्टो मौलविनैकदा । गौचर्यार्थ भ्रमन्नेको गुरु शिष्यो विचक्षणः ॥७४।। तेनाऽपि सहसा राकोक्तामावस्यादिने सति । ततो मौलविना सा च वार्ता छिद्रमवेषिणा ॥७॥ जैना मृषा प्रजल्पन्तीत्याच पहास पूर्वकम् । विस्तारिताऽखिलेद्रङ्ग यावञ्च साहि-संसदि ॥६।। युग्मम।। ततो विज्ञातवृत्तान्तः श्राद्धादानाय्यसद्गुरुः। सौवर्णस्थालमाकाशे मंत्र शक्त्या मुमोचहि ।।७।। सस्थालः पूर्णिमा ग्लौवन्निश्युदयादि दर्शयन् । सर्वतो द्वादश क्रोशं यावत्प्राकाशयत्तराम् ।।७८।। साह्यपि सर्वतःप्रेषिताश्ववारमुखाद्विधोः । प्रकाशोऽस्तीति संश्रुत्वा हर्षितो विस्मितो जनि ॥६।। एवं लाभपुरे सूरेविराजनादनेकशः । अभवन् धर्म कृत्यानि जैन धर्म प्रभावना ॥८॥ ततो विहृत्य सूरीन्द्रापाणइ पुरे कृता। चतुर्मासी च संवत्ख-बाणांग विधु वत्सरे ॥८॥ . .
६६]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org