________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
अन्न जल द्वय द्रव्य, मुत्कृष्ट द्रव्य हीन कम् ॥१६७।। तथापि तक राद्वान्नं शुठ्यादि स्वांदिमं च ते । गृहति देशयंत्यज्ञा-स्तदुत्सूत्रं हि तन्मते ।।१६८।। दुग्धादि विकृति नामां-तरं विधाय सागराः । लांति निर्विकृतौ शास्त्रा-नुक्ता मुत्सूत्र मत्रतत् ॥१६॥ तीर्थोद्गार प्रकीर्णादौ, पूर्वधरैः प्रकीर्तितः । श्रावक प्रतिमोच्छेदो. भिक्षक प्रतिमा इव ॥१७०।। तथाप्युद्वाहयंत्यज्ञाः, श्रावक प्रतिमा हठात् । श्राद्ध पार्वात्ततो ज्ञेयं, तदुत्सूत्रं हि तन्मते ।।१७१॥ पुनः संघपतौ माला-रोपणं सूरिकं विना।। बिंबाञ्जनशलाकापि, भवेन्नहि जिनेशितुः ।।१७२।। सागरास्तु विनासूरिं, कुर्वन्ति तद्वयं पुनः। साधूपधान माप्तोक्त-मज्ञानिषेधयन्ति ते । १७३।। या पर्युषित वल्लादि-द्विदला पूपिकायतेः। सूत्रोक्त कल्पनीयास्ति, तथापि तन्निषेधनम् ॥१७४।। बबूल संगरादीनां, द्विदलत्व निषेधनम् । पुन द्विदल सम्पर्का-मदुग्धाभक्ष्य माननम् ।।१७।। श्रुतदेव्याः पुनः कायो-त्सगं कुर्वन्ति ते निशं । तथापि पाक्षिकादौह्य-करणं तस्य तन्मते ।।१७६।। आयरिय उवज्झाए-पाठस्य पठनं यतेः। अड्डाइज्जेसु पाठस्य, श्राद्धानां पठनं पुनः ।।१७७।।
३२]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org