________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
मन्यन्ते सागरैरेक शत विंशतिपक्षकाः । चतुः पक्ष निषेधेन, तदुत्सूत्रंहि तन्मते ॥८३॥ प्रज्ञप्तान्युक्त सूत्रादौ, युगस्यैकस्य तीर्थपैः । अष्टादश शतत्रिंश-दहोरात्राणि शंकरैः ॥८४।। तथापि मन्यते चाष्टा-दशशतं कुसागरैः। तेषां त्रिंशनिषेधेन, तदुत्सूत्रंहि तन्मते ।।८।। प्रज्ञप्ता उक्त सूत्रादौ पश्चहायनिके युगे। अष्टादश शत षष्टि-तिथयः सर्वदर्शिभिः ।।८६।। तथापि मन्यते चाष्टा-दशशतं कुसागरैः। तासां षष्टि निषेधेन, तदुत्सूत्रंहि तन्मते ॥८॥ जिनेन्द्र रुक्त सूत्रादौ मासा राका स्त्रयोदश । पक्ष षड्विंशतिः प्रोक्ताः सम्वत्सरेभिवद्धिते ।।८८॥ तै मन्यन्ते तथापि द्वादश मासाः कदाग्रहात् । एक मास निषेधेन, तदुत्सूत्रंहि तन्मते ॥८६॥ मन्यन्ते मावसीनां द्वा-दश द्वादश पूर्णिमाः । राकाद्यक निषेधेनो तदुत्सूत्रंहि तन्मते ॥१०॥ मन्यन्ते पुन रजस्तै-श्चतुर्विंशति पक्षकाः। पक्ष द्वय निषेधेन, तदुत्सूत्रंहि तन्मते ॥६शा जिनैः प्रोक्तोक्त सूत्रादौ, त्रिशत नवती तिथिः । वन्हि गजाग्न्यहोरात्रं, संवत्सरेभिवद्धिते ॥१२॥ तथापि तिथ्यहोरात्र-षष्ट्य त्तरशतत्रयं । मन्यते सागरैस्तैस्त-दुत्सूत्र द्वय मत्रहि ॥३॥
२४ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org