________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
तस्याप्यानुचिताक्षेपा-न्निराकतुं समुद्यतैः । श्रीजिनचन्द्रसूरीन्द्र स्तवर्ष कार्तिकार्जुने ।।५।। चतुर्था सर्वगच्छीया-चार्य साधु विशारदान् । एकत्रीकृत्य संभृत्वा, सभामाकारितश्च सः॥५१॥ युग्मम् स धर्मसागरस्तत्र, नागतो गृहनर्दकः । किन्तु स्वोपाश्रयद्वारं, पिधाय तुष्णिकः स्थितः ॥५२।। कार्तिक शुक्ल सप्तम्यां, शुक्र जाता सभा पुनः । शास्त्रार्थ कर्तुमाचार्य, रापास्तो धर्मसागरः ॥५३।। तथापि नागतो सोथ, श्री जिनचंद्रसूरिभिः । अभयदेवसूरीन्द्रा, नवाङ्गीवृत्तिकारकाः ॥५४।। स्तंभनापार्श्वबिम्बस्य. प्रकटीकारका गणे। जाताः कस्मिन्निति प्रश्नः कृतस्तस्यां सुसंसदि ॥५५॥ युग्मम् सुप्राचीनकचत्वारिंशद्ग्रन्थानां प्रमाणतः । निर्णयीकृत्यतै सभ्यः प्रोक्तं मध्यस्थ दृष्टिभिः॥५६।। खरतर गणे पूज्या स्तेऽभयदेवसूरयः । संजाताः संति पूर्वोक्त-विशेषण द्वया युताः ॥५७।। उत्सूत्रभाषिता सत्य-भाषितनिह्नवत्वतः। जैनाद्वहिष्कृतो धर्म-सागरो निह्नवाप्रणिः ॥५८।। पुनः कार्तिक शुक्लस्य, त्रयोदश्यां सभा जनि । स्व स्व मतानि दत्तानि, तैः सभ्यर्लेखितानि वे ॥६॥ ग्रन्थ विस्तर भीत्यात्र, लिख्यते तानि नो पुनः । अस्योत्सूत्राणि दश्यन्ते, केवलं हितलिप्सया ॥६॥
[ २१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org