________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् सर्वांस्तद्रचितान्ग्रन्थान्, यः कश्चिद्वाचयिष्यति । जिनाज्ञा भंजकोऽसौ हि, गुरुद्रोही भविष्यति ॥८॥ पणं संघाय दत्बेति, रागद्वेष प्रवर्द्धकान् । तान् जलशरणीचक्र, ग्रंथान्सर्वाश्च सूरयः ॥६॥ युग्मम् पुन-नंदासणीग्रामे, सूरिणा गूर्जरस्थिते । सभ्रामितः समारोप्य, रासभे धर्मसागरः ॥१॥ स्वगणात्कर्षितश्चासौ विजयदानसूरिणा। तत्क्षणे यवनः कश्चिद् ग्रामाधीशो मृतोऽस्ति च।।११।। गुर्वाज्ञयाथ बद्धोऽसौ, ग्रामेश यवनैरपि । बलात्कारेण तत्पार्थात्, घोरं प्रखानितं बहिः ॥१२॥ तद्दिनाद्यवनःकश्चित्तद् ग्रामे म्रियते यदा। खनयन्ति तदा तस्या-द्य यावच्छिष्यभक्तकाः ॥१३॥ सोथ तच्छिष्य भक्ताश्च, रासभा घोरखोदिया। इति नाम द्वयेनास्मिन् . जने ख्यातिं गता भृशम् ॥१४॥ तत उज्जयिनीं गत्वा, तत्र स धर्मसागरः। संसाध्य कालिकामंत्र, सिद्धमन्त्रो भवत्कुधीः ॥१५॥ विजयदानसूरीन्द्र, स्वर्ग गते निजे गणे। विजयहोरसूरीन्द्र-रानीतो धर्मसागरः ॥१६॥ धर्मसागर आनीतः स्वमत्या हीरसूरिणा। ततो महान्विरोधो भून्निज गच्छे परस्परम् ॥१५॥ विजयदानसूरीणां पट्टे संस्थापितस्ततः राजविजयसूरीन्द्रः कतिभिर्यतिभि-नवः ॥१८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org