________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
तत्रत्य वासी नव वार्षिकः स,
श्रीवन्त पुत्रः सुलतान बालः । धर्मोपदेशेन समेत्य तेषां,
भवस्वरूपं गलनं प्रबुद्धः ||६४||
ततश्च माता- पितरौ प्रबोध्य, तयोरनुज्ञां सुलतानबालः । संगृह्य संबंध ग खांग चन्द्र
वर्षे ललौ तत्र महेन दीक्षाम् ||६५ || जिनमाणिक्यसूरीणा - मसौ शिष्यतया जनि । ततः परं गतः ख्यातिं, 'सुमतिधीर' संज्ञया || ६६।। सुसंस्कृत - प्राकृत शब्द-शास्त्र
साहित्यछन्दोनय - शब्द कोषान् ।
स स्वल्पकालेन जिनागमांश्च,
पपाठ सम्यक् सुगुरोः समीपात् ॥ ६७॥ क्रमात्स घटदर्शनशास्त्रवेत्ता,
गीतार्थमुख्यो भवदिद्धबोधः ।
व्याख्यान - शास्त्रार्थ-विधिप्रवीणो,
गांभीर्य धैर्यादि गुणप्रधानः ॥ ६८||
जिनादिमाणिक्य गुरुः प्रगच्छन्, देराउ राज्जेसलमेरु-मार्गम् ।
संवत्करेलांग- शशांक- वर्षे,
समाधिना मृत्युमवाप सूरिः ॥ ६६ ॥
Jain Educationa International
For Personal and Private Use Only
[ &
www.jainelibrary.org