________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्. जित्वा वादिगणान् विशारदसभाप्राप्तान् स विद्वत्तया सूरीशः कलिकालकेवलितया लोके प्रसिद्धिं गतः॥५०॥ आसीजिनादिःकुशलाख्यसूरि, स्तदीयप? मुनिसत्तमोस्ति । अद्यापि सर्वत्र च सप्रभावा, यत्पादुका सज्जनपूज्यमाना ॥५१॥ तदीय पट्टे जिनपद्मसूरि मा॑नादि पद्मा-परिभूषितो ऽभूत् । ' संसार-पद्माकर भव्य पद्म, सूर्यश्च विद्वन्नतपादपद्मः ॥५२।। सरस्वत्याः प्रसन्नेन, बभूवुस्ते प्रधारकाः । बालधवलकूर्चाल-भारती विरुदस्य च ॥५३।। तदीय पट्टे जिनलब्धिसूरि. बभूव संप्राप्तमुनित्व शोभः। संपादिता-शेषसुखादिलाभो, विद्याचणश्चाष्टनिधानवक्ता ॥५४॥ तदीय पट्टे जिनचंद्रसूरिः शुद्धाशयोभूद्गतमानमायः । स्वर्गापवर्गातुलसौख्यदायि-ज्ञानादि संसाधन सावधानः ।।५।। तदीयपट्टे परिपालयन्तः, पंच प्रकारं परिभावयन्तः । आचारवन्तमासंश्च जिनोदयाख्य
सूरीश्वराः सन्मुनिसेवनीयाः ॥५६।। सूत्रार्थरत्नौघविनाशितान्त
मिथ्यान्धकारो जिनराजसूरिः । तदीय पट्टे जनि तार्किकेषु,
मुख्यः प्रसंतोषितभव्य-जीवः ।।५।। तदीय पट्टे जिनभद्रसूरि
भद्रः प्रकृत्या कृतभूरिभद्रः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org