________________
॥ अहम् ॥ उपाध्याय श्री लब्धिमुनि विरचितं
अकबरशाहप्रतिबोधक युगप्रधान श्री जिनचंद्रसूरिचरितम्
प्रथमः सर्गः
वन्देऽहं वीतरागं च सर्वज्ञमिन्द्रपूजितम् । यथार्थवस्तुवक्तारं, श्रीवीरं त्रिजगद्गुरुम् ॥१॥ स्तुवेमत्र्येश्वरैरान्, सूरि-चक्रमतल्लिकाः । श्री जिनदत्तसूरीन्द्रान्, जिनकुशल-सद्गुरून् ॥२॥ राजेश साह्यकबर-प्रतिबोधकस्य,
श्री जैनशासन-समुन्नति-कारकस्य । मीनादि जन्तु कृपया विषयेऽत्र रम्यं,
___ संकीर्त्यते हि चरितं जिनचंद्रसूरेः ।।३।। जंबूद्वीपाभिधोद्वीपो, विद्यतेऽस्मिन् रसातले । सर्वद्वीप समुद्राणां, मध्यवर्ती सुवत्तलः॥४॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org