________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
सञ्जातस्तत्र षटत्रिंशत्सहस्र रुप्यक व्ययः । इयानेवाद्यसंघेपि व्ययो भूदनयो पुनः ॥१४६।। श्रीशत्रुञ्जय तारङ्ग रैवतकाबुदाद्रिषु । कल्याणकर सा गोडी पार्श्वराणपुरादिषु ॥१५।। ताभ्यां वृहत्तरान् संघान् प्रनिष्कास्य पुनः पुनः। तीर्थयात्रा प्रति द्रङ्ग लम्भनिका कृता पुनः ।।१५।। युज्मम्।। उक्तं च कल्पलतायाम् :-- यद्वारे पुनरत्र सोमजि शिवा श्राद्धौ जगद्विश्रतो, याभ्यां राणपुरश्च रैवतगिर श्री अर्बुदस्यस्फुटम् । गोड़ी श्रीविमलाचलस्य च महान् संघोनयः कारितो, गच्छे लम्भनिका कृता प्रतिपुरं रुक्मा द्विमेकं पुनः ॥१॥ ताभ्यां राजपुरे कारि रम्यं जिनालयत्रयम् । धनासुतार रथ्यायामृषभजिनमन्दिरम् ॥१५२।।
चैत्येऽस्मिन् स्थापिता मूतिः श्रीजिनचन्द्र सद्गुरोः । निजोपकारिणोद्यापि विद्यमानास्ति तत्र सा ॥१५३।। झवेरीवाटकान्तस्थ चतुमुखस्य पोलके । हाजापटेल रथ्यायां शान्तिनाथ जिनालयम् ॥१५४ ताभ्यां शत्रुञ्जये कारि चैत्यं चतुर्मुखाकृति । रम्यं विशाल मुत्तुङ्ग श्री ऋषभ जिनेशितु ।।१५।। निर्मापणेस्य षट्पञ्चाशल्लक्ष रूप्यक व्ययः । चतुरशीति सहस्र रूप्य दवरिका भवत् ।।१५६।।
[१३३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org