________________
अथ षष्ठः सगः
सम्राजोऽकबरस्यासन् शासन समये जनाः। कोटिशा भक्तिमन्तश्च जैनधर्मावलम्बिनः ॥१॥ जनानां ह्रदयंस्यूतप्रोतंतस्मिन् क्षणे भवत् । प्रकृष्ट धार्मिक श्रद्धाभक्तिभाव क्रिया गुणैः ॥२॥ श्राद्ध चेतसि वात्सल्यं स्वधर्मि बान्धवान्प्रति । तदानी मुच्छलत्पूज्यभावंच सद्गुरून्प्रति ॥३॥ तस्मिन्क्षणे महाशूरा महावैभवशालिनः । स्थाने स्थाने प्रतिष्ठाप्ता मन्त्र्याद्य च्चैः पदस्थिताः॥४॥ राजमान्याः सुधर्मिष्टा महादानेश्वरा वराः। अनेके श्रावका आसन पराधृष्या धनीश्वराः ॥५॥ युग्मम्।। श्रीजिनचन्द्रसूरीन्द्रानुयायि भक्तिशालिनः । लक्षशः श्रावका मन्त्रि कर्मचन्द्रादयो भवन् ।।६।। उक्तंच:--- येषां हस्त प्रभावातिशय मभिदधुर्मन्त्रिकर्मादिचन्द्राः श्रीमत्साहीश साहेरकचर नृपतेप्राप्त सभ्य प्रतिष्ठाः स्थाने स्थाने प्रकृाला नस्पति विदिताः श्रावका ऋद्धिमन्तः संघात्पक्षा विपक्ष प्रतिभय जनका लक्ष संख्या विशेषात् ॥१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org