________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् श्रीजिनभद्रसूरीन्द्र-परम्परागतो भवत् । निष्कषायश्चगीतार्थो दयाकुशल वाचकः ।।१४४।। शिष्योस्यामरमाणिक्य-वाचकोस्याप्यभूत्पुनः । मूर्याज्ञावति गीतार्थः श्रीसाधुकीर्ति पाठकः ॥१४॥ ओस वशीय सुचेती-गोत्रीय वस्तुपालजीः । पिता खेमलदेव्यस्य प्रसूः शील गुणान्वितः ।।१४६।। आगराख्य पुरे नेन बाणाक्ष्यङ्गन्दु वत्सरे । साहिपर्षदि शास्त्रार्थ मूकी कृताश्च सागराः ॥१४॥ कराग्नि रस भूवर्षे वैशाख पूर्णिमा तिथौ । अस्मै दत्तमुपाध्याय-पदं श्रीचन्द्रसूरिणा ॥१४८।। समय समयेऽनेन समंसूरीश्वरः पुनः। शास्त्रीय विषयानांहि परामर्श च कास्य ॥१४६।। जालोर नगरे संव-द्रसान्ध्यङ्गन्दु वत्सरे । माघ कृष्ण चतुर्दश्यां पाठकोऽयं दिवंगतः ॥१५०।।
अस्य च सप्तस्मरण बालावबोधः, सप्तदशभेदपूजा, आषाढभूतिप्रबन्धः मौनेकादशी स्तवनम्, भक्तामरावचूरिः, नमि राजर्षि चतुष्पदी, अमरसर शीतल जिन स्तवनम्, शेष नाममाला, दोषापहार स्तोत्र बालावबोधः इत्यादि कृतयः उपलभ्यन्ते।
अस्या सन्वाचकाः शिष्या विमल तिलकाभिधाः । श्रीसाधु सुन्दराख्य श्रीमहिम सुन्दरादयः ।।१५१।।
[ १०७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org