________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् अस्य च मुनिपति चरित्रं दयादीपिका चतुश्पदी. मोहबिवेकरासः परमात्मप्रकाशः नमस्काररासः चतुर्मासी व्याख्यानम्, संखेश्वर पार्श्वनाथस्तवनमित्यादि कृतयः उपलभ्यन्ते ।
जिनचन्द्र गुरोः शिष्यो लालकलश वाचकः । श्रीज्ञानसागरोस्यास्य कमलहर्ष वाचकः ।।१०।। अन्येपि बहवो राजहर्ष निलय सुन्दराः । हीरकलश कल्याणदेवहीरोदयो पुनः ।।१३१।। वादि विजयराजाख्य श्री ज्ञानविमलादयः । आसन शिष्या महाप्राज्ञाः श्रीजिनचन्द्र सद्गुरोः ।।१३२।।
युग्मम।। सूर्याज्ञावर्ति साधूनां मध्यात्केषांचिदुच्यते । नामावलिः समासात्त त्कृत ग्रन्थानुसारतः ॥१३३।। तत्राभवदुपाध्याय गीतार्थ पुण्यसागरः । षितास्योदयसिंहाख्य उत्तमादेप्रसूः पुनः ॥१३४॥ श्रीजिनहंससूरीन्द्र कर कमल दीक्षितः । गुरुदत्त महोपाध्याय पदधारकश्च सः ।।१३।। श्रीचन्द्रसूरि योगोप-धानतपोविधायकः । सूरिणा सादरं स्निग्ध दृष्टया विलोकितश्च सः ।।१३६।। समये समये तेन समं सूरीश्वरो भृशम् । शास्त्रीय विषयानांहि परामर्श मचीकरत ॥१३ ।। पुनरनेन संवत्ख-बाण रसेन्दुवत्सरे । जेसलमेरु दुर्गेच श्राद्धजन समाकुले ॥१३८।।
[ १०५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org