________________
अथ पञ्चमः सर्गः
इदृशाः सन्नरा लोके सुदुर्लभा भवन्ति हि । येषां कथन कर्त्तव्य-द्वय तुल्यं भवेत्सदा ॥१॥ प्रजल्पका सदालोके लभ्यन्ते प्रचुरा नराः। किन्त्वल्पाहि क्रियानिष्ठा उदाराः सच्चरित्रिणः ।।२।। स्वयमेतै गुणैराढया ये भवन्त्यपरेष्वपि । तेषां महाप्रभावश्च पतत्याश्चर्यकारकः ॥३।। यो जिनचन्द्रसूरीन्द्रो महा विद्वान्यथाभवत् । तेथैव शुद्धदुद्धर्ष-चारित्रपालनाग्रणीः ।।४।। यश्च कृत्वा क्रियोद्धारं सूरिपदाप्त्यनन्तरम् । बभूव सुदृढोत्कृष्ट-व्रतपालन तत्परः ॥५॥ उत्तरोत्तर संवृद्धिं स गतस्तत्प्रभावतः । येन सहस्रशो जीवाः सन्मार्गे स्थापिताः पुनः ॥६॥ पुनस्तस्योपदेशेन शतशोभव्य जन्तवः । ललुः संसारसंहारि-साधुश्राद्धब्रतानि च ॥१॥
८८]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org