________________
पद्मपुराणम् ।
४९४
त्रयोविंशतितमं पर्व |
विभीषणोऽपि संप्राप पुरीमशुभशान्तये । दानपूजादिकं चक्रे कर्म संजनितोत्सवं ॥ ५८ ॥ बभूव च मतिस्तस्य कदाचिच्छांतचेतसः । कर्मणामिति वैचित्र्यात्पश्चात्तापमुपेयुषः ॥ ५९ ॥ असत्यभीत्या क्षितिगोचरौ तौ । निरर्थकं प्रेतगतिं प्रणीतौ ॥ आशीविषांगप्रभवोऽपि सर्प - स्तार्क्ष्यस्य शक्नोति किमु प्रहर्तुं ॥ ६० ॥ सुलेशशौर्यौ क्षितिगोचरौ क । क रावणः शक्रसमानशौर्यः ॥
भः सशंको मदमंदगामी । क्व केसरी वायुसमानवेगः ॥ ६१ ॥ यद्यत्र यावच्च यतश्च येन । दुःखं सुखं वा पुरुषेण लभ्यं ॥
तत्तत्र तावच्च ततश्च तेन । संप्राप्यते कर्मवशानुगेन ॥ ६२ ॥ सम्यग्निमित्तं यदि वेत्ति कश्चिच्छ्रेयो न कस्मात्कुरुते निजस्य || येह लोके लभतेsति सौख्यं । मोक्षे च देहत्यजनात्पुरस्तात् || ६३ ॥ राज्ञोस्तयोः प्राणवियोजनेन । नैमित्तमूढत्वमितं विवेकं ॥
दुः शिक्षितार्थैर्मनुजैरकार्ये । प्रवर्तते जंतुरसारबुद्धिः ॥ ६४ ॥ अस्यां नाथस्य पुरी स्थितेयं । प्रभिन्नपातालतलस्य मध्ये ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org