________________
पद्मपुराणम् ।
४९२
त्रयोविंशतितमं पर्व।
सम्यग्दर्शनयुक्तेषु गुरुपूजनकारिषु । सामान्येनैव मे प्रीतिस्त्वद्विधेषु विशेषतः ॥ ३२ ॥ सत्वं युक्तं कुरु स्वस्ति भूयात्तेहं गतोऽधुना । इमां वेदयितुं वार्ता क्षिप्रं जनकभूभृतः ॥ ३३ ॥ कृतानतिनृपेणेव मुक्त्वात्यंतनभस्तलं । अवद्धारयतिवेगान्मिथिलाभिमुखं ययौ ॥ ३४ ॥ जनकायापि तेनेदमशेषं विनिवेदितं । भव्यजीवा हि तस्यासन् प्राणेभ्योप्यतिवल्लभाः ॥ ३५ ॥ अवद्धारयतौ याते मरणांशंकिमानसः । समुद्रहृदयामात्यमाकारयदिलापतिः ।। ३६ ॥ श्रुत्वा राजमुखान्मंत्री समभ्यर्ण महाभयं । जगदे गदतां श्रेष्ठः स्वामिभक्तिपरायणः ।। ३७ ॥ जीवितायाखिलं कृत्यं क्रियते नाथ जंतुभिः । त्रैलोकेशत्वलाभोऽपि वद तेनोज्झितस्य कः ३८ तस्माद्यावदरातीनां व्यसनं रचयाम्यहं । तावदज्ञातरूपस्त्वं विकृती विहरावनिं ॥ ३९ ॥ इत्युक्ते तत्र निक्षिप्य कोशं देशं पुरं जनं । निष्कामत्पुराद्राजा सह्यस्य सुपरीक्षितः ॥ ४० ॥ गते राजन्यमात्येन लेख्यं दाशरथं वपुः । कारितं मुख्यवपुषो भिन्नं चेतनयैकया ॥ ४१ ॥ लाक्षादिरसयोगेन रुधिरं तत्रनिर्मितं । मार्दवं च कृतं तावद्यावत्पत्यासुधारिणः ॥ ४२ ॥ वरासननिविष्टं तं वेश्मनः सप्तमे तले । युक्तं पुरैव सर्वेण परिवर्गेण बिंबकं ॥ ४३ ॥ स मंत्री लेप्यकारश्च कृत्रिमं सजतुनृपं । भ्रांतिर्हि जायते तत्र पश्यतोरुभयोरपि ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org