________________
पद्मपुराणम् ।
सप्तवृशं पर्व ।
सुमर्यादे वदेयं का दुहिता कस्य वा शुभा । पत्नी वा कस्य कस्माद्वा महारण्यमिदं श्रिता३२८ घटते नाकृतेरस्याः समाचारो विनिंदितः । ततः कथमिमं प्राप्ता विरहं सर्वबंधुभिः ।। ३२९ ।। भवत्येवाथवा लोके प्रायोऽकारणवैरिणः । माध्यस्थेऽपि निषण्णानां प्रेरिताः पूर्वकर्मभिः ३३० ततो दुःखभरोद्वेला वाष्पसंरुद्धकंटिका । कृच्छ्रेणोवाच सानंदं भूतलन्यस्तवीक्षणाः ।। ३३१ ॥ महानुभाव वाचैव ते विशिष्टं मनः शुभं । रोगमूलस्य हिच्छाया न स्निग्धा जायते तरोः ३३२ भावप्रवेदनस्थानं गुणिनस्त्वादृशा यतः । निवेदयामि ते तेन शृणु जिज्ञासितं पदं ॥ ३३३ ॥ दुःखं हि नाशमायाति सज्जनाय निवेदितं । महतां ननु शैलीयं यदापद्द्वततारणं ॥ ३३४ ॥ ruder विव्यापि यशसो विमलात्मनः । सुता महेंद्रराजस्य नामतः प्रथितांजना ।। ३३५ ॥ प्रह्लादराजपुत्रस्य गुणाकूपारचेतसः । पत्नी पवनवेगस्य प्राणेभ्योऽपि गरीयसी ॥ ३३६ ॥ सोऽन्यदा स्वैरविज्ञातः कृत्वास्यां गर्भसंभवं । शासनाज्जनकस्यागाद्रावणस्य सुहृद्युधे ॥ ३३७ ॥ दुःस्वभावतयाश्वश्रूया ततः कारुण्यमुक्तया । मूढया जनकं गेहं प्रेषितेयं मलोज्झिता ॥ ३३८ ॥ ततो नादात्पिताप्यस्याः स्थानभीतेरकीर्तितः । अलीकादपि हि प्रायो दोषाद्विभ्यति सज्जनाः ॥ सेयमालंबनैर्मुक्ता सकलैः कुलबालिका । मृगीसामान्यमध्यस्थान्महारण्यं समं मया ॥ ३४० ॥
Jain Education International
૪૦૮
For Private & Personal Use Only
www.jainelibrary.org