________________
चौवीसी
[८५]
नित्यानन्दमयः प्रसिद्धसमयः सद्भूतसौंख्याश्रयो, दुष्टाऽनिष्टतमःप्रणाशतरणिर्जीयाजिनः शीतलः....२ सद्भक्त्या त्रिदशेश्वरैः कृतनुतिर्भास्वद्गुणालंकृतिः, सत्कल्याणसमद्युतिः शुभमतिः कल्याणकृत्संगतिः । श्रीवत्साङ्कसमन्वितस्त्रिभुवनत्राणे गृहीतव्रतो, भूयाद् भक्तिभृतां सदेष्टवरदः श्रीशीतलस्तीर्थकृत्...३
श्रेयांसनाथ - [११] . चिरपरिचिता गाढव्याप्ता सुबुद्धिपराङ मुखी, निजबलपरिस्फूर्योदग्रा समग्रतया मम । व्यपगतवती दूरं दुष्टा स्वनिष्ठकुदृष्टिता,
अपचितसहा सद्यो भूत्वा यदीयसुदृष्टितः....१ निरुपमसुखश्रेणीहेतुनिराकृतदुर्दशा, शुचितरगुणग्रामावासो निसर्गमहोज्ज्वला । हृदयकमले प्रादुर्भूता सुतत्त्वरुचिर्मम,
विदलितभवभ्रान्तिर्यस्याऽप्यजस्रमनुस्मृतेः....२ उपकृतिमतिर्दाने दक्षो निरस्तजगद्व्यथः, समुचितकृतिविज्ञानांशुप्रकाशितसत्पथः ।
नृपगणगुरोविष्णोर्वशे प्रभाकरसन्निभः, . स भवतु मम श्रेयांसेनः प्रबोधसमृद्धये....३
वासुपूज्य नु [१२] पूर्णचन्द्रकमनीयदीधिति-भ्राजमानमुखमद्भुतश्रियम् । शान्तदृष्टिमभिरामचेष्टितं, शिष्टजन्तुपरिवेष्टितं परम्....१ नष्टदुष्टमतिभिर्यमीश्वरं,संस्मद्भिरिह भूरिभिर्नृभिः । क्षीणमोहसमयादनन्तरा, प्रापि सत्यपरमात्मरूपता....२ पाथिवेशवसुपूज्यवेश्मनि, प्राप्तपुण्यजनुषं जगत्प्रभुम् ।
वासुपूज्यपरमेष्ठिनं सदा, के स्मरन्ति न हि तं विपश्चितः?....३ Jain Education International For Private & Personal Use Only
www.jainelibrary.org