SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [८२] चैत्यवंदन अजितनाथ नु [२] सकलसुखसमृद्धिर्यस्य पादारविन्दे, विलसति गुणरक्ता भक्तराजीव नित्यम् । त्रिभुवनजनमान्यः शान्तमुद्राऽभिरामः, स जयति जिनराजस्तुङ्गतारङ्गतीर्थे....१ प्रभवति किल भव्यो यस्य निर्वर्णनेन, व्यपगतदुरितौघः प्राप्तमोदप्रपञ्चः । निजबलजितरागद्वेषविद्वेषिवर्ग, तमजितवरगोत्रं तीर्थनाथं नमामि...२ नरपतिजितशत्रोवंशरत्नाकरेन्दुः, सुरपति-यतिमुख्यैर्भक्तिदक्षैः समर्त्यः । दिनपतिरिव लोकेऽपास्तमोहान्धकारो, जिनपतिरजितेश: पातु मां पुण्यमूत्तिः....३ संभवनाथ नु [३] यद्भक्त्यासक्तविता: प्रचुरतरभवभ्रान्तिमुक्ता मनुष्याः संजाताः साधुभावोल्लसितनिजगुणान्वेषिणः सद्य एव । स श्रीमान् संभवेश: प्रशमरसमयो विश्वविश्वोपकर्ता, सद्भर्ता दिव्यदीप्तिः परमपदकृते सेव्यतां भव्यलोकाः!....१ शुक्लध्यानोदकेनोज्ज्वलमतिशयितस्वच्छभावाद्भुतेन, स्वस्मादात्य वृत्तं शिवपदनिगमं कर्मपङ्कप्रपञ्चम् । नीरन्ध्र दूरयित्वा प्रकृतिमुपगतो निर्विकल्पस्वरूपः, सेव्यस्तार्यध्वजोऽसौ जगति जिनपतिर्वीतरागः सदैव...२ वाधौं विद्योतिरत्नप्रकर इव परिभ्राजते सर्वकाले, यस्मिन्निःशेषदोषव्यपगमविशदे श्रीजितारेस्तनूजे । दुष्प्रापो दुष्टसत्त्वैः स्फुटगुणनिकरः शुद्धबुद्धिक्षमादिः, कल्याणश्रीनिवासः स भवति वदताऽभ्यर्चनीयो न केषाम्....३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003635
Book TitleChaityavandan Chauvisi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAbhinav Shrut Prakashan
Publication Year
Total Pages110
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy