________________
चौवीसी
सुविधिनाथ नु [६] गुणराजिमनोहररत्ननिधिं, वरशान्तरसोमिसुधाजलधि, परिणामहितोदितपुण्यविधि, प्रणमामि जिनेन्द्रमहं सुविधि....१ मुदितामलसाधुलसच्चरितम्,विदिताऽखिललोकमिहादुरितं, सुखमिच्छसि चेच्चतुर त्वरितं, सुविधि भज तत्सुखमाभरितं....२ दधतं सततं सुमहानवमं, विगलन्मलजालमिहानवमम्, सदनं परमप्रशमं नवमं, जिनमञ्चत भव्यजना ! नवमं....३ पुरुहूतपरंपरया महितम्, समधामहितं सुषधाम हितम्, विदलन्तमचं भविनाम हितम्,सुविधि स्मर भव्यकलामहितम्...४ कमलोपमदक्षिणवामकरम्, क्रमसेवनसोदरसन्मकरम्, अवदातयशोजितसोमकरम्, सुविधिं श्रयतानघधामकरम्....५
शीतलनाथ नु [१०] अमृतमसमतृष्ण-तापनिर्वापहेतुं,हितमगदमदभ्रं रागरोगं विनेतुम्, कतकफलमशुद्धस्वान्तपानीयशुध्द्यै, ।
जिनपतिमहमीडे शीतलं पुण्यबुध्द्यै...१ दृढरथनृपनन्दानंदनं नेत्रलीलां बुजविकसनभानुविभ्रतं योगिलीलां, भजत शुभजनाः । श्रीवत्ससश्रीकपादम्,
___ जिनममुमकलङ्कम् सर्वदा निविषादम्....२ विषमविषयकीलाघोरसंसारदावे,कथमहह दुरंतक्लेशदायिस्वभावे, दधति रतिमधन्या मोहमूढापदेनं,
तदुपशमकमाप्तं नो भजन्ते यदेनम्....३ कलुषशिरसि भेदे जाज्वलद्वज्ररूपम्,
निविडजडिमनाशे चंडभानुस्वरूपम्, कथमिह भजमानाः सत्यशब्दार्थदाक्ष्यम्,
यमभिदधति देवं साधवः शीतलाख्यम्....४ अपि दशसु दिशासु स्पष्टबोधप्रकाशम्,
सदशभिधसुधाभुक्शाखिवत्पूरिताशम्,
"
५
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org