SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पूर्णतल्लगच्छ संदर्भ सूची: १. Dasharatha Sharma - Early Chauhans Dynesties, New Delhi ___1959,A. D., p. 24. आसीच्चन्द्रकुलाम्बरैकशशिनि श्रीपूर्णतल्लीयके, गच्छे दुर्धरशीलधारणसहै: संपूरिते संयतैः । निःसम्बन्धविहारहारिचरितश्चचरित्रः शुचिः श्रीसूरिर्मलवर्जितोर्जितमतिश्चाम्रिदेवाभिधः ॥ १ ॥ तच्छिष्य श्रीदत्तो, गणिरभवत् सर्वसत्त्वसमचित्तः । नरनायकादिवित्तः, सद्वृत्तो वित्तनिर्मुक्तः ॥ २ ॥ सूरिस्ततोऽभूद् गुणरत्नसिन्धुः, श्रीमान् यशोभद्र इतीद्धसंज्ञः । विद्वान् क्षितीशैर्नतपादपाः, सन्नैष्ठिको निर्मलशीलधारी ॥ ३ ॥ नीरोगोऽपि विधानतो निजतत्तं (y) संलिख्य सर्वादरात्, सर्वाहारविवर्जनादनशनं कृत्वोज्जयन्ते गिरौ । कालेऽप्यत्र कलौ त्रयोदशदिनान्याञ्चर्यहेतुर्जने, शस्यं पूर्वमुनीश्वरीयचरितं संदर्शयामास यः ॥ ४ ॥ तच्छिष्यो भूरिबुद्धिर्मुनिवरनिकरैः सेवित: सर्वकालं, ___ सच्छास्त्रार्थप्रबन्धप्रवरवितरणाल्लब्धविद्वत्सुकीर्तिः । येनेदं स्थानकानां विरचितमनघं सूत्रमत्यन्तरम्यं, श्रीमत्प्रद्युम्नसूरिजितमदनभटोऽभूत् सतामग्रगामी ॥ ५ ॥ राद्धान्त-तर्क-साहित्य-शब्दशास्त्रविशारदः । निरालम्बविहारी च, यः शमाम्बुमहोदधिः ॥ ६ ॥ सिद्धान्तदुर्गम महोदधिपारगामी, कन्दर्पदर्पदलनोऽनघकीर्तियुक्तः। दान्ताऽ तिदुर्दुमहषीकमहातुरङ्गः ___ श्रीमांस्ततः समभवद् गुणसेनसूरिः ॥ ७ ॥ जगत्यपि कृताश्चर्य, सुराणामपि दुर्लभम् । निशाकरकराकारं, चारित्रं यस्य राजते ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003615
Book TitleJain Shwetambar Gaccho ka Sankshipta Itihas Part 02
Original Sutra AuthorN/A
AuthorShivprasad
PublisherOmkarsuri Gyanmandir Surat
Publication Year2009
Total Pages698
LanguageHindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy