________________
२६०
सूत्रकृतांग सूत्र
णेणं तत्थवुक्कमा उदगजोणिएसु उदएसु तसपाणत्ताए विउटैति । ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं जाव संतं । अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्खायं ॥ सू० ५६ ॥
संस्कृत छाया अथाऽपरं पुराख्यातमिहैकतये सत्त्वा: नानाविधयोनिका: यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधानां त्रसस्थावराणां प्राणानां शरीरेषु सचित्तेषु वा अचित्तेषु वा तच्छरीरं वायुसंसिद्ध वा वायुसंगृहीतं वा वायुपरिगृहीतं वा उर्ध्ववातेषु ऊर्श्वभागी भवति, अधोवातेषु अधोभागी भवति, तिर्यग्वातेषु तिर्यग्भागी भवति । तद्यथा-अवश्यायः । हिमकः मिहिका करक: हरतनुकाः शुद्धोदकम् । ते जीवास्तेषां नानाविधानां त्रसस्थावराणां प्राणानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां त्रसस्थावरयोनिकानां अवश्यायानां यावच्छुद्धोदकानां शरीराणि नानावर्णानि यावदाख्यातानि ।
अथाऽपरं पुराख्यातम् --इहैकतये सत्त्वाः उदकयोनिकाः उदकसम्भवाः, यावत् कर्मनिदानेन तत्र व्युत्क्रमाः त्रसस्थावरयोनिकेषु उदकेषु उदकतया विवर्तन्ते । ते जीवास्तेषां त्रसस्थावरयोनिकामुदकानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावदपराण्यपि च तेषां त्रसस्थावरयोनिकानामुदकानां शरीराणि नानावर्णानि यावदाख्यातानि ।
___अथाऽपरं पुराख्यातमिहैकतये सत्त्वाः उदकयोनिकानां यावद् कर्मनिदानेन तत्र व्युत्क्रमाः उदकयोनिकेषु उदकेषु उदकतया विवर्तन्ते । ते जीवास्तेषामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् । अपराण्यपि च तेषामुदकयोनिकानामुदकानां शरीराणि नानावर्णानि यावदाख्यातानि ।
____ अथाऽपरं पुराख्यातमिहैकतये सत्त्वाः उदकयोनिकानां यावत् कर्मनिदानेन तत्र व्युत्क्रमाः उदकयोनिकेषूदकेषु त्रसप्राणतया विवर्तन्ते । ते जीवास्तेषामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावदपराण्यपि च खलु तेषामुदकयोनिकानां त्रसप्राणानां शरीराणि नानावर्णानि यावदाख्यातानि । स० ५६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org